________________
परिकासमेतः। परवस्तुन इति । समानं च तदपरं चेति समानापरवस्तु । अपरमित्यसमानं शेषं सुगमत्वान्न विभक्तम् ॥ १७५५ ॥ १७५६ ॥ १७५७ ॥ __ तेनैवेत्यादिना प्रतिविधत्ते1 तेनैवासौ खभावेन समान इति गम्यते ।
एकप्रत्यवमर्शस्य हेतुत्वेनान्यभेदतः ॥ १७५८ ॥ तेनैव खभावेन समान इत्युच्यते । एकप्रत्यवमर्शप्रत्ययकारणत्वात् । एतदुक्तं भवति-ये टेकप्रत्यवमर्श प्रति कारणभावं न प्रतिपद्यन्ते त एवासमाना इति व्यवड़ियन्ते, ये तु प्रतिपद्यन्ते ते समाना इति ॥ १७५८ ॥
अथ तस्यैवैकप्रत्यवमर्शस्य हेतवः किमिति सर्वे न भवन्ति, भेदस्याविशिष्टत्वादित्याशयाह-एकेत्यादि ।
एकप्रत्यवमर्शस्य हेतवः केचिदेव हि ।
समर्थरूपनियमाझेदेऽप्यक्षामृतादिवत् ॥ १७५९॥ नहि स्वभावाः पर्यनुयोगमर्हन्ति कस्मादग्निर्दहत्युष्णो वा नोदकमिति । एवं तु युक्तं वक्तुं कुतोऽस्यायं स्वभाव इति, निर्हेतुकत्वे त्वनपेक्षस्य नियमायोगेनातिप्रसगात् । तस्मात्स्वहेतोरिति वक्तव्यं, तस्यापि कुत इत्यनादिहेतुपरम्परा । अक्षमिन्द्रियम् । अमृतं गुडूची । आदिशब्दः प्रत्येकममिसम्बध्यते । यथा गुडूच्यादीनामेव ज्वरादिशमने शक्तिर्नान्येषाम् , इन्द्रियविषयालोकमनस्कारादीनां च विशिष्टज्ञानोत्पादने, तथैकप्रत्यवमर्शेऽपि केषांचिदेव शक्तिनियम इति । यद्वाऽक्षशब्देन विभीतकस्याभिधानम् , आदिशब्दः समुदायेन सम्बध्यते ॥ १७५९ ॥ ननु नीलादीत्यादिना दृष्टान्तासिद्धिमाशङ्कते ।
ननु नीलादिविज्ञानजननं लोचनं कथम् । व्यावृत्तरूपभागेव नीलादिभ्यो यदीष्यते ॥ १७६० ॥ नीलादिज्ञानजनकानीलादेर्भेदवद्यथा। श्रोत्रं न तस्य जनकं तथा चक्षुरपीष्यताम् ॥ १७६१ ॥ जनकाद्धि परावृत्तः कोऽपरो जनको भवेत् ।
भावस्तस्मात्पदार्थानामन्वयोऽपीति निश्चयः ॥ १७६२ ॥ यदि नीलादिभ्यो व्यावृत्तिरूपभागेव लोचनमिष्यते, नानुवृत्तिभागित्यवधारणे