________________
तत्त्वसङ्ग्रहः। नाह । तदा नीलादिविज्ञानजनकं लोचनं न प्राप्नोति, तजनकखभावात्परावृत्तत्वात्। यो हि यजनकस्वभावात्परावृत्तः स तजनको न भवति, यथा नीलाविज्ञानजनकात्रीलादेावृत्तं श्रोत्रं न तस्य नीलादिज्ञानस्य जनकम् । नीलादिज्ञानजनकाच नीलादेावृत्तं चक्षुरिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । नचैवं भवति । तस्माद्विपर्ययः । यो हि यजनकः स वजनकस्वभावापरावृत्तः । यथा नीलज्ञानजनकं नीलं स्वस्मास्वभावात् । नीलज्ञानजनकं च चक्षुरिति स्वभावहेतुः । एवं नीलादयोऽपि पक्षत्वेन वाच्याः । तस्मादस्ति भावानामन्वय इति प्रसङ्गविपर्ययेण दृष्टान्तासिद्धिमाह ॥ १७६० ॥ १७६१ ॥ १७६२ ॥
अथापि स्यात्-ततो व्यावृत्तं च भविष्यति तजनकं चेयनैकान्तिकं प्रसङ्गसाधनमित्याह-अन्यथेत्यादि ।
अन्यथा निर्विशिष्टवादेन श्रवणायपि।
जनकं तस्य किं नेष्टं चल रूपादिभेदवत् ॥ १७६३ ॥ . श्रोत्रादीनामपि नीलादिज्ञानजनकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणं भेदेनाविशिटत्वात् । नीलादिभ्यो यो भेदश्चक्षुषस्तेन भेदेन श्रोत्रादीनां चक्षुरादिना तुल्यत्वात् । यथा चक्षुर्नीलादेावृत्तं तथा श्रोत्रमपीति यावत् ॥ १७६३ ॥ न्यावृत्तिरित्यादिना प्रतिविधत्ते।
व्यावृत्तिश्चक्षुरादीनां न सिद्धा जनकादियम् । अविशेषेण यत्तेषामाधा(त्मा)पि जनको मतः ॥१७६४॥ खभावानच भावानां व्यावृत्तिरुपपद्यते। खभावाद्धि परावृत्तौ नैःस्वाभाव्यं प्रसज्यते ॥ १७६५ ॥ अन्यस्माजनकात्तेषां व्यावृत्तिरुपवर्ण्यते । अतजनकरूपत्वं वाच्यं तचेष्टमेव नः ॥ १७६६ ॥ न पप्युत्पादकं तस्य स्वरूपेणैव वर्ण्यते । नियतास्तत्र ते सर्वे खहेतुभ्यः समुत्थिताः ॥ १७६७ ॥ एकात्मानुगतत्वातु यद्येकजनका इमे । आत्मैकत्रापि सोस्तीति किमन्यैः सहकारिभिः ॥ १७६८॥ विशेषान्तरवैकल्यादेके न जनकं यदि । ननु भेदादशक्तास्तेऽभेदे वा विकलाः कथम् ॥ १७६९ ॥