________________
पविकासमेतः।
४९९ यथा स्वयं विशेषेपि न सर्व सर्वकारणम् । नानात्वस्याविशेषेपि तथैव नियमो भवेत् ॥ १७७० ॥ भेदेऽपि जनकः कश्चित्खभावनियमाद्भवेत्। अन्वये त्वेक एकस्य जनकोऽजनकश्च किम् ॥ १७७१ ॥ भेदोऽप्यत्रास्ति चेदस्तु स किं तस्यैव वस्तुनः। नहि तस्यान्वयादन्यो ननु भेदो न कारकः ॥ १७७२॥ स एव भाविकश्चार्थो यो नामार्थक्रियाक्षमः। स च नान्वेति योऽन्वेति कार्य तस्मान्न जायते ॥१७७३॥ यं चात्मानमभिप्रेत्य पुमानेष प्रवर्तते। विद्यते तद्गतावेव भेदाभेदावकल्पितौ ॥ १७७४ ॥ अन्यथा त्यात्मना भेदो व्यावृत्त्या च समानता।
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ॥ १७७५ ॥ अविशेषेण तजनकखभावात्परावृत्तिमात्रं यदि हेतुत्वेन वर्ण्यते तदा न सिद्धो हेतुः । नहि चक्षुरादीनां नीलादिज्ञानजनकात्स्वभावादविशेषेण व्यावृत्तिः सिद्धा। यतस्तेषामपि चक्षुरादीनां यः स्वभावः सोऽपि जनक इष्टः । को पत्र नियमस्तेनैव तत्कार्य कर्त्तव्यं नान्येनेति, अन्योऽपि कुर्यात्सोपीति न विरोध पश्यामः । यदि तु पुनरविशेषेण व्यावृत्तिः स्यात्तदा स्वस्वभावादपि स्यात्ततश्च निःस्वभावताप्रसङ्गः स्यात् । तस्मान्न स्वभावाद्भावानां व्यावृत्तिर्युक्ता । अथ स्वस्वभावं मुक्त्वाऽन्यस्माजनकाद्वा व्यावृत्तिश्चक्षुरादीनां सा हेतुत्वेनामिमता, तदाऽनैकान्तिकता हेतोः, तदा सन्यस्मात्स्वभावाव्यावृत्तस्तत्स्वभावो माभूत् , न तु तदजनकः । यतः सर्व एव खरूपेणैव जनको न पररूपेण, येन चात्मीयेन स्वभावेनासौ जनक इष्यते तस्माच न व्यावृत्त इति कथमजनकः स्यादित्यनैकान्तिकता हेतोः । अथातत्स्वभावता पर्युदासवृत्त्या साध्यते, तदा सिद्धसाध्यता, परस्परं भावानां स्वभावविवेकस्येष्टत्वात् । अतजनकरूपत्वमिति । स चासौ जनकश्च तज्जनको रूपादिः, तस्य रूपं स्वभावः, स यस्य.नास्ति सोऽतजनकरूपस्तद्भावस्तत्वम् । तस्य-अन्यस्य यज्जनकरूपं तेन रहितत्वमिति यावत् । अथवा-तच तजनकं चेति तजनकं, तजनकं च तवं चेति कर्मधारयं कृत्वा नमा बहुव्रीहिः कार्यः। त्रिपदो वा बहुव्रीहिः । अये.