________________
तत्त्वसार। कस्मिन्कार्ये कर्चव्ये स एव तेषां चक्षुरादीनां परस्परासकीर्णो जनकः खभावः कुत आयातो येन त एव तु कार्ये नियताः स्युरित्याशयाह-नियता इति । यदुक्तं भेदेन निर्विशिष्टत्वाच्छ्रवणाद्यपि जनकं तस्य किं नेष्टमिति, तदनेन परिहृतम् । तस्मात्स्वभावनियमाद्रेदेऽपि कश्चिजनको भवेनापर इति न किंचिद्विरुद्धम् । यदि तु पुनरेकखभावानुगतत्वेन मिन्ना अपि चक्षुरादयो जनकाः स्युस्तदैकस्तेषां स्वभावो जनक एकस्मिन्नपि कारणेऽस्तीति तत एवैकस्मात्कार्योत्पत्तिः स्यात् । ततश्च शेषसहकारिकारणवैयर्थ्यप्रसङ्गः स्यात् । अथ विशेषान्तरवैकल्यान्नैकस्मात्कार्योत्पत्तिरिति चेत् , ये ते विशेषा विकला इष्यन्ते तेषामशक्तत्वात् , कस्मात् ?, भेदात्-सम
मिमतादनुयायिनः स्वभावादन्यत्वादिति यावत् , नचाशक्तस्य वैकल्ये कार्यानुत्पत्तियुक्ता, कस्यचिदनुत्पत्तिप्रसङ्गात् । अथापि स्यात्-नास्मामिः सामान्यविशेषाणां परस्परमत्यन्तभेद इष्टः, ततश्च भेदादित्यसिद्धो हेतुरित्याह-अभेदे वा विकला: कथमिति । सामान्याद्विशेषाणामभेदेऽङ्गीक्रियमाणे न तर्हि वक्तव्यं विशेषान्तरवैकल्यादेकं न जनकमिति । अतस्तस्मिन्सामान्ये तिष्ठत्यविकले सति तव्यतिरेकिणां विशेषाणामपि वैकल्यासिद्धिः । नहि यो यदेकयोगक्षेमो न भवति स तत्स्वभावो युक्तः । अपिच समान एवायं प्रसङ्गो भवतामपि, अन्वयस्याविशिष्टत्वात्किमिति सर्वः सर्व न जनयेत् । यथा भवतामन्वयस्याविशेषेऽपि सर्व सर्वस्य जनकं न भवति तथाऽस्माकमपीति यत्किञ्चिदेतत् । किंच-भेदाविशेषेऽपि कश्चिजनयति नापर इति जनकस्वभावप्रतिनियमादेवं भवेत् , एकस्य यः स्वभावो नासौ परस्येति कृत्वा, नचैवं सति किंचिद्विरुध्यते । यदा त्वनुगतस्यैकात्मनो जनकत्वं तदैकस्यैकस्मिन्कार्ये जनकत्वमजनकत्वं चेति कथं विधिप्रतिषेधौ युक्तावेकाधारौ । मिनाधिकरणौ तु न विरुद्धावित्यत एकस्येत्याह । अथापि स्यानास्माभिरेकान्वेनान्वय एवेष्टो येनैकस्यैकत्र जनकत्वाजनकत्वविरोधः स्यात् । किं तर्हि ? । भेदोऽप्यत्रास्ति । तेनाजनकत्वं न विरुद्धमिति । अस्तु भेदः, स किं जनकखभावाद्भेदस्तस्यैवानुगतस्य जनकात्मनोऽभीष्टः, आहोखिदन्यस्येति वक्तव्यम् । न तावत्तस्यैव, नहि स्वभावाद्वाबस्स परावृत्तिर्युक्ता, निःस्वभावत्वप्रसङ्गात् । नाप्यन्यस्य, भेदे तस्य जनकस्वभावस्याविकलस्साजनकत्वं युक्तमतिप्रसङ्गात् । भवतु वा तस्यैव स्वस्वभावाद्वेदस्तथा:प्येकस्य जनकत्वाजनकत्वविरोधो न परिहृत एव । तथाहि-भेदादपि तस्यैकस्याकारको भवेत् । ननु नान्योऽन्वयात् , किं तर्हि ?, स एवान्वयस्ततश्च स एवैकस्म