________________
पलिकासमेतः।
५०१ जनकत्वाजनकत्वविरोधस्तदवस्थ एव । अन्वेतीत्यन्वयो जनक एव स्वभाव उच्यते । नन्वित्यमिमुखीकरणम् । अपि च-अन्वयव्यतिरेकाभ्यां विशेषेभ्य एव कार्यसिद्धेस्त एव स्खलक्षणयुक्ताः, न सामान्यार्थम् , क्रियाकारिलक्षणत्वाद्वस्तुत्वस्य, ततश्च कि सामान्य स्खलक्षणाद्भिन्नमाहोखिदमिन्नमिति किमर्थक्रियार्थिनस्तत्र भेदाभेदचिन्तया, यस्माद्यमेव स्वभावमर्थक्रियायोग्यममिसन्धायैष पुमानर्थक्रियार्थी प्रवर्चते, तद्गतावेव भेदाभेदी चिन्येतेऽर्थक्रियार्थिमिर्न व्यसनितया । अन्यथा हि यद्यकल्पितौ भेदाभेदी नेष्येते, तदा तस्यार्थक्रियायोग्यस्यात्मना-खेन रूपेण भेदः पारमार्थिकोऽस्त्येव, व्यावृत्त्या च विकल्पबुद्धिप्रतिभासाऽनुरोधिन्या कृतव्यवस्था सामान्यताऽध्यवसिततद्भावाऽस्त्येवेत्यविवाद एव । इयतैवार्थक्रियार्थिनो भेदसामान्यचिन्ता समाप्तेति किमनर्थक्रियाकारिणः सामान्यस्य भेदाभेदचिन्तया । अथापि स्याद्वस्त्वेव सामान्यमस्तु, किं परिकल्पितया व्यावृत्त्येत्याह-वस्त्वित्यादि । यदि पटादिरूपं घटादिरन्वियात् , तदा मधूदकाद्याहरणार्थी पटादावपि प्रवतेति प्रवृस्यादेः प्रसङ्गः स्यात् । आदिशब्दात्तुल्योत्पत्तिनिरोधादिप्रसङ्गः॥१७६४॥१७६५॥ ॥ १७६६ ॥ १७६७ ॥ १७६८ ॥ १७६९ ॥ १७७० ॥ १७७१ ॥ १७७२।। ॥ १७७३ ॥ १७७४ ॥ १७७५ ॥
अथ सौगतैरिव परैरपीदमिष्यते-तस्माद्यतो यतोऽर्थो नाव्यावृत्तस्तन्निबन्धना जातिभेदाः प्रकल्पन्ते तद्विशेषावगाहिन इति, अत्राह-कल्पनारचितस्येत्यादि ।
कल्पनारचितस्यैव वैचित्र्यस्योपवर्णने ।
को नामातिशयः प्रोक्तो विप्रनिर्ग्रन्थकापिलैः ॥ १७७६ ॥ वैचित्र्यस्येति । भेदस्य ॥ १७७६ ॥ वर्द्धमानकमङ्गेनेत्यादिना कुमारिलमतमाशङ्कते ।
वर्द्धमानकभङ्गेन रुचकः क्रियते यदा। तदा पूर्वार्थिनः शोकः प्रीतिचाप्युत्तरार्थिनः ॥ १७७७ ॥ हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ।
नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम् ॥ १७७८ ॥ स याह-उत्पादस्थितिनाशस्वभावत्वात्सर्वमेव वस्तु यात्मकम् । एकस्मादपि प्रीत्यादिकार्यत्रयदर्शनात् , तथाहि यदा वर्द्धमानकं भक्त्वा रुचकः क्रियते, बदा