________________
५०२
सत्त्वसकहा। वर्षमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः, सुवर्णार्थिनस्तु माध्यस्थ्यम् । यदि च वस्त्वेकरूपमेव स्यात् , तदैकाकारैव बुद्धिः स्यात् , न त्रिप्रकारा । वर्द्धमानकरुचकौ-भाजनविशेषौ ॥ १७७७ ॥ १७७८ ॥
स्थादेतत्-यदि नाम व्यात्मकं वस्त्विति सिद्ध्यति, तथाऽपि नाशादिरूपेण ध्यात्मकमित्येतत्कुत इत्याह-न नाशेन विनेत्यादि ।
न नाशेन विना शोको नोत्पादेन विना सुखम् ।
स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता॥१७७९॥ तेन सामान्यनित्यतेति । यस्मात् स्थित्यादिना न माध्यस्थ्यं, तेन-माध्यस्थ्यस्य स्थित्यविनामावित्वेन, सामान्यस्यापि—सवर्णत्वस्य, नित्यता प्रतीयते १७७९ इत्येतदित्यादिना प्रतिविधत्ते ।
इत्येतदपि नो युक्तमसामान्याश्रयत्वतः । उत्पादस्थितिभङ्गानामेकार्थाश्रयता न हि ॥ १७८० ॥ समानकालताप्राप्तेः परस्परविरोधिनाम् । इदं तु क्षणभङ्गित्वे सति सर्वमनाकुलम् ॥ १७८१ ॥ वर्द्धमानकभावस्य कलधौतात्मनः कथम् । अनन्वये विनाशे हि कस्यचिच्छोकसम्भवः ॥ १७८२॥ सर्वथा पूर्वरूपस्य रुचकस्य तदात्मनः।
जन्मन्युत्पद्यते प्रीतिर्नावस्थानं तु कस्यचित् ॥ १७८३ ॥ असामान्याश्रयत्वत इत्येतद्हणकवाक्यम् । अस्य व्याख्यानमुत्पादस्थितीत्यादि । यदि हि वस्त्वेकमप्युत्पादादिस्वभावेन त्र्यात्मकं स्यात्तदा युगपत्परस्परविरोधिन उत्पादस्थितिविनाशाः प्राप्नुवन्ति, नच विरोधिनामेकत्र युगपद्भावो युक्तः, अन्यथा हि विरोधित्वमेव न स्यात् । कथं तर्हि मतित्रयस्योत्पत्तिर्युक्तेति चेत् , यथा युक्ता तथा श्रूयतामिति दर्शयन्नाह-इदं त्विति । वर्द्धमानात्मको भावो वर्द्धमानकभावः, स किंविशिष्टः, कलधौतात्मा-कलधौतं सुवर्ण स एवात्मा स्वभावो यस्येति विग्रहः, तस्य स्वतः-स्वरसेन, विनाशे सति कस्यचित्तदर्थिनः शोक उत्पद्यते । अपूर्वस्य तु रुचकाख्यभावस्य तदात्मनो-हेमात्मनः, जन्मनि-उत्पादे सति, कस्यचिद्रुचकाध्यवसितस्य प्रीतिरुत्पद्यते । नतु कस्यचित्सुवर्णात्मनोऽवस्थानमस्ति निरन्वयत्वादुत्पादविनाशयोः ॥ १७८० ॥ १७८१ ॥ १७८२ ॥ १७८३ ॥