________________
पञ्जिकासमेतः ।
यद्येवं कथं तर्हि माध्यस्थ्य बुद्धिरित्याह-- शातकुम्भेत्यादि । शातकुम्भात्मको भावौ यदा पश्यति मूढधीः । समानापरभावेन स्थिरत्वं मन्यते तदा ॥ १७८४ ॥ नोऽवस्थितरूपत्वे तद्रूपं रुचकाद्यपि ।
पूर्वोत्तराद्यवस्थासु दृश्येतानेकताऽन्यथा ।। १७८५ ॥ इति स्याद्वादपरीक्षा ।
शातकुम्भात्मकौ सुवर्णस्वभावौ बर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति मूढमतिः, पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धो विवेचयितुमशक्तत्वादतएव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि नः स्थिरत्वं मन्यते । समानापरभावेनेति । अहेमव्यावृत्तिमात्रसाधर्म्येण समानस्यापरस्य भाव उत्पादः समानापरभावः । कथं पुनरवसीयते समानापरभावेन विप्रलब्धः स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावादित्याह - हेम्न इत्यादि । यदि हेम्नः स्थिरत्वं स्यात्तदा तद्व्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत, उपलब्धिलक्षणप्राप्तत्वात् । अन्यथा - यदि रुचकस्य वर्द्धमानावस्थायां न दृष्टिर्वर्द्धमानस्य रुचकाबस्थायामुपलब्धिलक्षणप्राप्तस्य तदानीं तयोः परस्परतो भेदः, ततश्च ताभ्यामव्यतिरेकाच्च तत्स्वभाववद्धेनोऽपि भेदः सिद्धः स्यादित्यालोच्याह- अनेकताऽन्यथेति । यच्चावधीकृतवस्तुभ्य इत्यादि भेदसाधनमुक्तं तत्र सिद्धसाध्यतैवेति दूषणमुच्यते ॥ १७८४ ॥ १७८५ ॥
इति स्याद्वादपरीक्षा | असङ्क्रान्तिमित्यस्य समर्थनार्थमाह – हेमेत्यादि ।
नोऽनुगमसाम्येन स्थिरत्वं मन्यते तदा ।
अवस्थाभेदवान्भावः कैश्चिद्वौद्धैरपीष्यते ॥ १७८६ ॥
५०३
नाऽवस्थानं तु कस्यचिदित्यत्रेदं चोद्यम् । ननु कथमिदमुच्यते नावस्थानं तु कस्यचिदिति, यावता कैश्चिद्धर्मत्रातप्रभृतिभिबौद्धैरपि कालत्रयावस्थितो भाव इष्टोऽबस्थाभेदात्, हेमानुगमसाधर्म्येण ॥ १७८६ ॥
एतदेव द्वितीयेन श्लोकेन दर्शयति ।
अवस्थाभेदभावेऽपि यथा वर्ण्य जहाति न ।
हेमाध्वसु तथाभावो द्रव्यत्वं न त्यजत्ययम् ॥ १७८७ ॥