________________
५०४
तत्त्वसहः।
अतीताजातयोर्जानमन्यथाऽविषयं भवेत् । दूयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥ कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते । अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥१७८९॥ न द्रव्यापोहविषया अतीतानागतास्ततः ।
अध्वसनहरूपाद्विभावादेर्वर्तमानवत् ॥ १७९० ॥ तत्र भावान्यथावादी भदन्तधर्मत्रातः, स किलाह-धर्मस्याध्वसु वर्तमानस्य भावान्यथात्वमेव केवलं नतु द्रव्यस्येति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्यमिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथात्वम् । तथा हि-अनागतभावपरित्यागेन वर्तमानभावं प्रतिपद्यते धर्मो, वर्तमानभावपरित्यागेन चातीतभावम् , नतु द्रव्यान्यथात्वं, सर्वत्र द्रव्यस्याव्यभिचारात् । अन्यथाऽन्य एवानागतेऽन्यो वर्तमानोऽन्योऽतीत इति प्रसज्यते । कः पुनर्भावस्तेनेष्टः १ । गुणविशेषः, यतोऽतीताद्यमिधानज्ञानप्रवृत्तिः । लक्षणान्यथावादी भदन्तघोषकः । स किलाह । धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पमाभ्यां लक्षणाभ्यामवियुक्तः, यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त एवमनागतप्रत्युत्पन्नावपि वाच्ये । अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति पूर्वका दः । अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह-धर्मोऽध्वसु वर्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतो, न द्रव्यतः, द्रव्यस्य त्रिध्वपि कालेष्वमिन्नत्वात् । यथा मृगुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शताङ्के शतं, सहस्राङ्के सहस्रं, तथा कारित्रेऽवस्थितो भावो वर्तमानस्ततः प्रच्युतोऽतीतस्तदप्राप्तोऽनागत इति । अस्य व्यवस्थापेक्षया व्यवहारो यथा मृगुडिकायां, नहि तस्याः स्वभावान्यथात्वं भवति, किं तर्हि ?, स्थानविशेषसम्बन्धात्सङ्ख्यामिद्योतकं संज्ञान्तरमुत्पद्यते । अन्यथान्यथिको बुद्धदेवः, स किलाह-धर्मोऽध्वसु वर्तमानः पूर्वापरमपेक्ष्यान्योन्य उच्यत इति । यथैका स्त्री माता चोच्यते दुहिता चेति । अस्य पूर्वापरापेक्षो व्यवहारः, यस्य पूर्वमेवास्ति नापरः सोऽनागतः, यस्य पूर्वमस्ति अपरं च स वर्तमानः, यस्यापरमेव न पूर्व सोऽतीत, इत्येते चत्वारः सर्वेऽस्तिवादा भावलक्षणाऽवस्थान्यथान्यथिकसंहिताः । तत्र प्रथमः परिणामवादित्वात्सासमताम मि