________________
पखिकासमेतः ।
५०५
1
1
द्यते । यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः । तथाहि — पूर्वस्वभावापरित्यागेन वा परिणामो भवेत्, परित्यागेन वा । यद्यपरित्यागेन तदाऽध्वसङ्करप्रसङ्गः । अथ परित्यागेन, तदा सदाऽस्तित्वविरोधः । द्वितीयस्यापि वादिनोऽयं सङ्कर एव, सर्वस्य • सर्वलक्षणयोगात् । पुरुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च समन्वागममात्रेण, नतु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणोऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दायन्तिकेन तृतीयस्य कारित्रेणाध्वव्यवस्थेति तस्य विस्तरेण दूषणं वक्ष्यते । चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवति । तथाहि । अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति । एषा दूषणदिगेषां स्पष्टा । तृतीयमेवारभ्य भूयत्रैकाल्यपरीक्षाऽऽरभ्यते । हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, नतु धर्मत्रातदर्शनमेवाभिमतम् । तथाच वक्ष्यति " कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यत" इति । नच धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ?, वसुमित्रस्य । तत्र यद्यतीतानागतं न स्यात्, अभून्महासम्मतो भविष्यति शङ्खचक्रवर्त्तीत्यतीताजातयोर्विज्ञानं निरालम्बनमेव स्यात् । ततश्च विज्ञानमेव न स्यादालम्बनाभावादिति भावः । तथाहि — प्रतिवस्तु विज्ञध्यात्मकं विज्ञानम्, असति च ज्ञेये न किश्विदनेन ज्ञेयमित्यविज्ञानमेव स्यात् । किश्व – द्वयं प्रतीत्य विज्ञानमुत्पद्यत इति भगवतोक्तम् "कतमहूयम्, चक्षूरूपाणि यावन्मनोधर्मा” इति । असति चातीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः । अपिचातीतं कर्म फलदं न स्याद्यदि तन्निःसत्त्वं सत्ताशून्यं भवेत्, फलोत्पत्तिकाले विपाकहेतोरभावात् । नचास्रतः कार्योत्पादनशक्तिरस्ति, सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य । किंच — आसीन्मान्धानो ब्रह्मदत्तो, भविष्यति शङ्खचक्रवर्त्ती मैत्रेयस्तथागत, इत्यादिना विभागेन योगिनामतीवादिविषयं विभक्तं विज्ञानं न स्यात् । न ह्यसतां विभागोऽस्ति । तस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः, अध्वसंगृहीतरूपादित्वेनोपदिष्टत्वाद्वर्त्तमानवत् । उक्तं हि भगवता - "अतीतं चेद्भिक्षवो रूपं नाभविष्यन श्रुतवानार्यभावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मान्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावको ऽतीतरूपेऽनपेक्षो भवतीति विस्तरः तथा यत्किंचिद्रूपमतीतमनागतादि तत्सर्वममिसंक्षिप्य रूपस्कन्ध इति सङ्ख्यां गच्छतीत्यादि । अध्वना सङ्घहो येषां तेऽध्वसङ्घहा रूपादयः । आदिशब्देन वेदनादिपरिग्रहः । तेषां भावो
I