________________
५०६
तस्वसहा रूपादित्वम् । अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृयते ॥ १७८७ ॥ १७८८ ॥ १७८९ ॥ १७९० ॥ __ अथापि स्यात्-आकाशवत्सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथमित्याहनचैवमित्यादि ।
नचैवमिह मन्तव्यमध्वभेदः कुतो न्वयम् । कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यते ॥ १७९१ ॥ कारित्रे वर्तते यो हि वर्तमानः स उच्यते । कारित्रात्पच्युतोऽतीतस्तदप्राप्तस्त्वनागतः ॥ १७९२ ॥ फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु।
न वाक्षेपोस्त्यतीतानां नातः कारित्रसम्भवः ॥ १७९३ ॥ यतः संप्राप्तकारित्रो वर्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽनागत इत्यध्वानः कारित्रेण व्यवस्थिताः । किं पुनरत्र कारित्रममिप्रेतम् , यदि दर्शनादिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम् । यतश्चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वं, विजानातीति कृत्वा रूपादीनामिन्द्रियगोचरत्वम् । एवं सति प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषो निद्राद्यवस्थायां कारित्राभावाद्वर्त्तमानता न स्यात् । अथ फलदानग्रहणलक्षणं कारित्रम्-यथा चक्षुषा सहभवा धर्मा जात्यादयः पुरुषाकारफलम् , अनन्तरोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत्फलं जननाप्रयच्छद्धेतुभावावस्थानागृहच्चक्षुर्वर्तमानमुच्यत इति । एवं तबतीतानामपि सभागसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमावर्त्तमानत्वप्रसङ्गः । अथ समस्तमेव फलदानग्रहणलक्षणं कारित्रमिष्यते । एवमतीतस्य सभागहेत्वादेरर्द्धवर्तमानत्वप्रसङ्ग इत्येतदोषभयादाचार्यसहन्तभद्र आह-धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, नतु फलजननं, नचातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति, वर्तमानावस्थायामेवाक्षितत्वात् । नचाक्षिप्तस्याक्षेपो युक्तोऽनवस्थाप्रसङ्गात् । तस्मादतीतानां न कारित्रसम्भव इति नास्ति लक्षणसङ्कर इति ॥ १७९१ ॥ १७९२ ॥ १७९३ ।। तैरित्यादिना प्रतिविधते।
तः कारित्रमिदं धर्मादन्यत्तद्रूपमेव वा। अभ्युपेयं यदन्याऽस्ति गतिः काचिन्न वास्तवी ॥ १७९४ ॥