________________
विकासमेतः। अन्यत्व वत्तमानानां प्रागवं वाऽखभावता। हेतुखसंस्कृतत्वादेः कारित्रस्येव गम्यताम् ॥ १७९५ ॥ अन्यथा नित्यतापत्तिः खभावावस्थितेः सदा।
नैतद्रूपातिरिक्तं हि विद्यते नित्यलक्षणम् ॥ १७९६ ॥ तत्कारित्रं धर्मादन्यद्वा स्यादनन्यद्वेति तैरभ्युपगन्तव्यम् , अन्यानन्ययोरन्योन्यपरिहारस्थितलक्षणत्वात् । एकनिषेधस्यापरविधिनान्तरीयकत्वात् । नान्या वस्तुनो गतिरस्ति । तत्र यद्यन्यत्तदा वर्तमानानां प्रागूर्वावस्थयोः निःस्वभावता प्राप्नोति । हेतुत्वसंस्कृतत्वाद्धेतोः कारित्रवत् । आदिशब्देन वस्तुत्वादयो गृह्यन्ते । अन्यथा यदि प्रागुव॑ च निःस्वभावता न स्यात्तदा सर्वस्य संस्कृतस्य नित्यता प्राप्नोति, स्व. मावस्य सर्वदा व्यवस्थितत्वात् । नच सदासत्त्वव्यतिरेकेण नित्यत्वलक्षणमस्ति यदाह-नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यती"ति ॥ १७९४ ॥ १७९५ ।। ॥ १७९६ ॥
स्यादेतत्-यदि नाम नित्यता शक्तिः । हेतुत्वसंस्कृतत्वादेस्तु हेतोः कथं साध्यविपक्षेण विरोध इत्याह-नित्यस्येत्यादि ।
नित्यस्य हेतुता पूर्व क्रमाक्रमविरोधतः। निषिद्धा संस्कृतत्वं हि व्यक्तं नित्ये निरास्पदम् ॥१७९७॥ स्कन्धादिव्यतिरिक्तस्य कारित्रस्योपवर्णने ।
खसिद्धान्तविरोधश्च दुर्निवारः प्रसज्यते ॥ १७९८ ॥ पूर्वमिति । स्थिरभावपरीक्षायाम् । सर्वस्य च संस्कृतस्यानित्यत्वाभ्युपगमात्संस्कृतत्वं निये न सम्भवतीति स्पष्टमेवावसीयते । किंच-स्कन्धायतनव्यतिरिक्तस्य कारित्रस्योपवर्णने सिद्धान्तविरोधः, तथाहि भगवतोक्तम् "सर्व सर्वमिति ब्राह्मण यदुत पञ्चस्कन्धा द्वादशायतनानि, अष्टादशचा(श्चा?)भव” इति ॥ १७९७ ।। ॥१७९८॥
अनन्यत्वेऽपि कारित्रं धर्मादव्यतिरेकतः। खरूपमिव धर्मस्य प्रसक्तं सार्वकालिकम् ॥ १७९९ ॥ ततचाध्वविभागोऽयं तद्वशान्न प्रकल्प्यते। न हि तस्य च्युतिः प्राप्तिरप्राप्तिवा विभागतः ॥ १८००॥