________________
૨૦૮
तत्त्व
अयानन्यत्कारित्रमभ्युपगम्यते तदा धर्मस्वरूपवत्तद्व्यतिरेकात्तदपि सार्वकालिकं प्राप्नोति । ततश्च कारित्रात्प्रच्युतोऽतीतस्तत्प्राप्तो वर्त्तमानस्तदप्राप्तोऽनागत इति कात्रिवशादयमध्वविभागो न स्यात् । यतोऽस्य कारित्रस्य यदि विभागेन यदि प्रात्यप्राप्तयः स्युस्तदा स्यादयमध्वविभागः, न च तानि विभागेन सम्भवन्ति, सदावस्थि - तैकरूपस्य विभागाभावात् ॥ १७९९ ।। १८०० ॥ कारित्राव्यतिरेकाद्वा धर्मः कारित्रवद्भवेत् । पूर्वापरव्यवच्छिन्नमध्यमात्रकसर्ववान् ॥ १८०१ ॥
किया— कारित्रादव्यतिरिक्तत्वाद्धर्मोऽपि पूर्वापरकोटिशून्यसत्तायोगी प्राप्नोति कारित्रवत् । पूर्वापरन्यवच्छिन्नं – पूर्वापरकोटिशून्यं, मध्यमात्रकं च तत्सर्वं चेति विग्रहः । तदस्यास्तीति तद्वान् ॥ १८०१ ॥
कारित्रमित्यादिना परस्परविरुद्धाभ्युपगमोद्भावनेनोपहसति । कारित्रं सर्वदा नास्ति सदा धर्मश्च वर्ण्यते । धर्मान्नान्यच कारित्रं व्यक्तं देवविचेष्टितम् ॥ १८०२ ॥ कारित्रान्तरसापेक्षा तत्राप्यध्वस्थितिर्यदि । तुल्यः पर्यनुयोगोऽयं ननु सर्वत्र धावति ॥ १८०३ ॥ एवं तर्हि रूपादिधर्मो न सदास्तीति प्रसक्तं कारित्रादव्यतिरिक्तत्वादित्याहसदा धर्मश्चेति । एवमपि धर्मादन्यत्कारित्रं प्रसज्यत इत्याह- धर्मान्नान्यच्च कारित्रम् । देवाः – ईश्वरादयः, ते हि युक्तायुक्तमनालोच्य खातच्येणैव वर्त्तन्त इति, तेषां यथाचेष्टितं युक्तिनिरपेक्षं स्वातत्र्येण प्रवृत्तिस्तद्वदेतदिति यावत् । किंच
-यदि कारित्रस्य कारित्रमन्तरेणानागतादित्वमिष्यते, न तर्हि वक्तव्यमध्वानः कारित्रेण व्यवस्थिता इति, व्यभिचारात् । यथा कारित्रस्य स्वरूपसत्तापेक्षयाऽनागवादित्वं व्यवस्थाप्यते, एवं भावानामप्यनागतादित्वं भविष्यतीति किं कारित्रकल्पनया । अथ माभूद्व्यमिचारदोष इति कारित्रस्यापि कारित्रमभ्युपगम्यते, तदा तत्रापि व्यतिरेकादिचिन्तया तुल्यः पर्यनुयोगः । अनवस्थादोषा || १८०२ ॥ १८०३॥ यदुक्तमनन्यत्वेऽपि कारित्रं सार्वकालिकं प्राप्नोति धर्मस्वरूपवदविशेषादिति । अत्र भदन्तसहन्तभद्र आह
स्वरूपाद्व्यतिरिक्तोऽपि दृष्टः सप्रतिघत्ववत् । विशेषवेदिदं नैव प्रकृतस्योपकारकम् ॥ १८०४ ॥