________________
पविकासमेतः। नहि सप्रतिघवादिः पदार्थस्यानुगामिनः ।
कादाचित्को मतः कश्चिद्धावस्यैव तथोद्भवात् ॥ १८०५ ॥ खरूपान्यतिरिक्षोपि विशेषको धर्मो दृष्टो यथा सप्रतिघत्वादिः पृथिव्यादीनाम् , ते हि पदार्थत्वेनाविशिष्टा अपि सप्रतिघा अप्रतिघाः सनिदर्शना अनिदर्शना इति स्वरूपाव्यतिरिक्तैर्धमैर्विशिष्टाः प्रतीयन्ते तद्वत्कारित्रेणापि धर्म इति । तदेतत्प्रकृतानुपकारकम् । तथाहि-इदमत्र प्रकृतम् , पदार्थात्कारित्रस्याभेदेऽभ्युपगम्यमाने सत्येकस्यैव पदार्थस्यात्मभूतकारित्रस्याविशेषात्तद्वशादयमध्वविभागो नावकल्पत इति । पृथिव्यादयस्तु परस्परमन्योन्यलक्षणभेदासङ्गामिन्ना इति युक्तं यत्केचित्सप्रतिघा भवन्ति केचिदप्रतिघा एव यथा वेदनादयः । नतु य एवाप्रतिघास्त एव सप्रतिघा इति, यतो न कश्चिदेकोऽनुगामी पदार्थात्मास्ति, पृथिव्यादीनां यत्सप्रतिघत्वादिधर्मः कादाचित्को भवेत् । किं तर्हि ?, भावस्य निरवयवस्य तथा सजातीयविजातीयव्यावृत्तस्योद्भव इति न स्वरूपाव्यतिरिक्तो धर्म एकस्य भेदको युक्तः॥१८०॥१८०५॥
कथं रूपस्य सप्रतिघत्वमिति व्यतिरेकीव व्यपदेशो यदि स्वरूपाव्यतिरिक्तो धर्मो भेदको न भवेदित्याह-अनाक्षिप्लेत्यादि ।
अनाक्षिसान्यभेदेन भाव एव तथोच्यते।
तद्रूपस्येति शब्देन चेतसो वासनापि च ॥ १८०६॥ अनाक्षितान्यभेदेनेति । भेदान्तरप्रतिक्षेपेणेत्यर्थः । तथोच्यत इति । व्यतिरेकीव । तदिति । सप्रतिघत्वम् । शब्देनेति । रूपस्य (स)प्रतिघत्वमित्यनेन । अत्र दृष्टान्तमाह-चेतसो वासनापिचेति । अपिचेति समुदायो निपात इवार्थे दृष्टव्यः ॥ १८०६॥
पुनः स एवाह-न कारित्रं धर्मादन्यत् , तद्व्यतिरेकेण स्वभावानुपलब्धेः, नापि धर्ममात्रम् , स्वभावास्तित्वेपि कदाचिदभावात् । न च न विशेषः, कारित्रस्य प्रागभावात् , सन्तानवत् । यथा धर्मनैरन्तर्योत्पत्तिः सन्तान इत्युच्यते, न चासो धर्मव्यतिरिक्तस्तदविभागेन गृह्यमाणत्वात् , नच धर्ममात्रम्, एकक्षणस्यापि सन्तानत्वप्रसङ्गात् , नच नास्ति, तत्कार्यसद्भावादिति । आह च-सन्ततिकार्य चेष्टं, न विद्यते सापि सन्ततिः काचित् । तद्वद्वगच्छ युक्त्या कारित्रेणाऽध्वसंसिद्धिमिति, अत्राह-तत्त्वान्यत्वेत्यादि ।