________________
तत्वमा
तत्वान्यत्वप्रकाराभ्यामवाच्यमय वर्ण्यते । सन्तानादीव कारित्रं स्यादेवं सांघृतं ननु ॥ १८०७ ॥ अतश्च कल्पितत्वेन तत्कचिन्नोपयुज्यते । कार्ये सन्ततिवद्यमाद्वरत्वेवार्थक्रियाक्षमम् ॥ १८०८॥ सन्निधानं च तस्येदं भाविकं नेति तत्कृतम् ।
अध्वत्रयव्यवस्थानं तात्विकं नोपपद्यते ।। १८०९ ॥ सन्तानादीवेति । आदिशब्देन समूहादिपरिग्रहः । यथा सन्तानिभ्यस्तत्त्वान्यत्वेनावाच्यत्वात्पुद्गलवत्सन्तानो निःस्वभावः (तथा कारित्रं निस्वभावं ) स्यात् , खभावे हि सति तत्त्वमन्यत्वं वाऽवश्यम्भावि, ततश्च तत्कारित्रं कल्पितत्वान्न कचि. कार्ये सन्ततिवदुपयुज्येत । नहि कल्पितस्य सन्तानस्य कचित्कार्येऽस्त्युपयोगस्तस्य निखभावत्वात् । स्वभावप्रतिबद्धत्वात्कार्योदयस्य । तस्माद्वस्त्वेव सन्तानिखभावम
क्रियाक्षमम् । न सन्तानः कल्पितः । ततश्च कारित्रस्य प्रज्ञप्तिसत्त्वात्प्रागनु पश्चादपि न परमार्थतः सन्निधानमस्तीति तद्वशाध्वत्रयव्यवस्थानमपि कल्पितमेव स्थान भाविकम् ॥ १८०७ ॥ १८०८ ॥ १८०९ ॥
तथापि स्याद्भवतु कारित्रं प्रज्ञप्तिसत्, तत्कृतं चाप्यध्वव्यवस्थानं प्रज्ञप्तिसत् , ततश्च को दोष इत्याह-कारित्राख्येति ।
कारित्राख्या फलाक्षेपशक्तिर्या शब्दगोचरा । शक्तरेव च वस्तुवात्सा प्रज्ञप्तिसती कथम् ॥ १८१०॥ यचेदमिष्यते रूपं दाहपाकादिकार्यकृत् । अतीतानागतावस्थं किं तदेवाभ्युपेयते ॥ १८११ ॥ तदेव चेत्कथं नाम तस्यैवैकात्मनः सतः। अक्रिया च क्रिया चापि क्रियाविरतिरित्यपि ॥ १८१२॥ एकस्मिनिर्विशिष्टेस्मिन्परस्परपराहताः। प्रकाराः कथमेते हि युज्यन्ते नाम वस्तुनि ॥ १८१३ ॥ एकावस्थापरित्यागे परावस्थापरिग्रहात्। नैवैतनिर्विशिष्टं चेद्वस्त्वध्वखिति कल्प्यते ॥ १८१४ ॥ किं वै भावाद्विभियन्तेऽवस्था नाकर्तृतासितः । तासामेव हि सद्भावात्कार्यसत्तोपलभ्यते ॥ १८१५॥