________________
पलिकासमेतः ।
५११ फलाक्षेपशक्तिर्हि धर्माणां कारित्रमिति भवता वर्णितम् । साच फलाक्षेपशक्तिः प्राप्तिसती (कथं) भवेत् । नैव भवेदिति यावत् । ततश्च तद्वशादध्वव्यवस्थान वात्त्विकमेवेष्टं भवतीति भावः । किंच-यदेतदाहपाकाचर्थक्रियाकारि वहयाविरूपसुपलभ्यते, किं तदेवातीतानागतावस्थमाहोखिदन्यत् । यदि तदेव, कथमेकसिमिविशिष्टेऽस्मिन्रूपादिके वस्तुन्यक्रियादयः परस्परविरुद्धा धर्मा युज्यन्ते । येन यथाक्रममनागतवर्तमानातीतव्यवस्था स्यात् । यदि हि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्, उत्सना तर्हि भेदव्यवस्था, ततश्च सर्वमेव जगदेकमेव स्यात् । एकत्वे च सहोपत्यादिप्रसङ्गः । अथाप्यवस्थापरित्यागपरिग्रहभेदेन मिन्नत्वादध्वसु वस्तु न निर्विशिधमिति कल्पते, एवमपि किं ता अवस्था भावादिना माहोखिदमिन्ना इति वक्तव्यम् । पर आह-नेति । मियन्ते भावादिति सम्बन्धः । कस्मात् ?, भावस्थाकतताप्तितः-अकर्तृत्वप्रसङ्गात् । अन्वयव्यतिरेकाभ्यां तासामेवावस्थानां कार्य प्रति सामर्थ्यसिद्धेः ।। १८१० ॥ १८११ ॥ १८१२ ॥ १८१३ ॥ १८१४॥१८१५॥ अत्र दूषणमाह-अभेदमित्यादि ।
अभेदमनुमन्यन्ते कथमध्वसु वस्तुनः । ता अभूत्वा भवन्त्यश्च नश्यन्त्यश्च तदात्मिकाः ॥१८१६॥ अवस्थायां च मध्यायां खरूपेणैव कारकम् । तत्तदेव खरूपं च दशयोरन्ययोरपि ॥ १८१७॥ तदा क्रियाक्रियाशौ कथमस्य तयोर्मतौ। पररूपेण कर्तृत्वे प्राप्ताऽस्याकर्तृता पुनः ॥ १८१८॥ अतीतानागतावस्थमन्यच्चेदनलादिकम् । तत्साकादिदोषोऽयमस्मिन्पक्षे निरास्पदः ॥ १८१९ ॥ तदिदानीमभूत्वैव कार्ययोग्यं प्रजायते ।
न च तिष्ठति भूत्वेति सिद्धाऽस्यानन्वयात्मता ॥ १८२०॥ वस्तुनः सकाशादभेदं कथमवस्था (स्व)नुमन्यन्ते-प्रतिपद्यन्ते । नैव । यस्मादभूत्वा भवन्त्यवस्था भूत्वा च विनश्यन्ति । नच तथा वस्त्विष्टम् , सर्वदाऽस्तित्वाभ्युपगमात् । ततश्च कथं ता अभूत्वा भवन्यो विनश्यन्त्यश्च तदात्मिका युक्ताः । नैव । मिन्नयोगक्षेमत्वात् । अन्यथा हि तदात्मत्वेनासामपि सदाऽस्तित्वप्रसङ्गो वस्तु