________________
तरवसग्रहः
५१२
स्वभाववत्, ततोऽव्यतिरेकाद्वस्तुनो वाऽभूत्वाभावादिप्रसङ्गोऽवस्थास्वरूपवत् । भबंतु चावस्थाभेदपरकल्पना, तथापि विरुद्धधर्माध्यासो न परिहत एव, तथाहिवस्तु मध्यावस्थायां किं स्वरूपेण कारकमाहोखित्पररूपेण, यदि स्वरूपेण तदेव स्वरूपमन्ययोरपि दशयोरतीतानागतावस्थयोरस्तीति कथमस्य कारकस्वभावस्य क्रियाक्रि-: याभ्रंशौ स्याताम् । अथ पररूपेण, तदाऽस्याकर्तृता पुनः प्राप्तेत्यवस्तुत्वप्रसङ्गः । एवं तावत्तदेव वह्नथादिरूपमतीतानागतावस्थायां न युक्तम् । अथान्यत्, अस्मिन्पक्षे न भवत्येकत्र क्रियाक्रियादिपरस्परपराहतधर्मसाङ्कर्यादिदोषः, भिन्नत्वाद्वस्तुनः । किं तु यत्तद्दाहपाकादिकार्ययोग्यमनलादिकं वस्तु तदभूत्वा जायते, भूत्वा च विगच्छतीति सदाऽस्तित्वाभ्युपगमविरोधः स्यात्, अन्वयाभावात्॥ १८१६॥ १८१७॥ ।। १८१८ ।। १८१९ ।। १८२० ॥
स्यादेतत् — यद्यपि कार्ययोग्यमभूत्वा जायते, भूत्वा च विगच्छतीति, तथाप्यतीतानागतावस्थायामकार्ययोग्यं वस्तु विद्यत एव, ततश्च न सदाऽस्तित्वाभ्युपगमविरोध इत्याह-- स एवेति ।
स एव भाविको भावो य एवायं क्रियाक्षमः ।
स च नास्ति तयोर्योस्ति न तस्मात्कार्यसम्भवः ॥ १८२१ ॥ स एवेति । अर्थक्रियाक्षमः । तयोरिति । अतीतानागतावस्थयोः । अकार्ययोग्यः ।। १८२१ ॥
1
1
अथापि स्यात् - अतीतस्य सभागहेत्वादेः कार्ययोग्यत्वमिष्यत एव ततश्चासि - द्धमेतन्न तस्मात्कार्यसम्भव इत्याह- अतीतश्चेति ।
अतीतच पदार्थोऽयमभूत्वा भवनात्स्फुटम् । वर्त्तमानोऽन्यवत्प्राप्तः कादाचित्कतयापि च ॥ १८२२ ॥ सदा सत्वमसत्वं वाऽहेतुत्वेऽन्यानपेक्षणात् । हेतोर्नियतसत्त्वञ्च वर्त्तमानोऽर्थ उच्यते ॥ १८२३ ॥ प्रतिसङ्ख्यानिरोधादिवैलक्षण्यं परैर्मतम् ।
संस्कृतत्वं च रूपादेर्जातिस्थिव्यादियोगतः ॥ १८२४ ॥ तत्र जातिर्विशेषं कं जनयन्त्यभिधीयते । जनिकाऽस्येति तद्रूपादजातादपरं परम् ॥ १८२५ ।।