________________
१९. - न दृष्टेग्नुपपन्नं च यत्सामान्यविशेषयोः।
ऐकात्म्येऽपीश्यते भेदलोकयात्रानुवर्तनम् ॥ १७२५ ॥ स हि चोचोपक्रमे परिहारं किलात्राह-तत्सामान्यविशेषयोः परस्परस्वभावविरहानभ्युपगमे सङ्कीर्णता प्राप्नोति । नैष दोषः । तयोरेकखभावतया सत्यामपि' सहीर्णतायां धर्मभेदः प्रसिद्ध्यति कारकशक्तिवत् । तथाहि बलाहको विद्योतते, बलाहकाद्विद्योतत, इत्यादिकार्यभेदाद्भिद्यमानात्मानः कारणशक्तयः समुपलभ्यन्ते द्रव्यस्वभावाव्यतिरिक्ततया सङ्कीर्णतायामपि सत्याम् । तदनभ्युपगमे लोकशास्त्रविरोधोऽवश्यम्भावी । अपिच । न हि दृष्टेऽनुपपन्नं नाम । तथाहि सामान्यविशेषयोरेकवस्तुस्वभावत्वेऽप्यसङ्कीर्णताया भेदेऽपि लोकयात्रानुवर्त्तनमुपलभ्यत एव । भेदेन लोकयात्रा भेदलोकयात्रा, साऽनुवर्त्यते येनैकात्म्येन तत्तथोक्तम् । प्रयोगःएकस्य वस्तुनो यो भेदव्यवहारः स धर्मभेदनिबन्धनः, यथा कारकशक्तिषु, भेदव्यवहारश्वायमेकस्मिन्वस्तुनि सामान्यविशेषलक्षण इति स्वभावहेतुः ॥ १७२४ ॥१७२५॥ नन्वित्यादिना प्रतिविधत्ते ।
ननु सत्येकरूपत्वे धर्मभेदो न सिद्ध्यति ।
अकल्पितो विभेदो हि नानात्वमभिधीयते ॥ १७२६ ॥ अनेन हेतोविरुद्धतामाह । इष्टविपरीतसाधनात् । तथाहि-पारमार्थिको धर्ममेंदो वादिनः साधयितुमिष्टः, स चाकल्पितो धर्मभेदो न सिद्ध्यति, वस्तुन एकत्वा. भ्युपगमात्, तस्य चैकस्य वस्तुनो भेदविरोधात् , यतो भेद इति नानात्वममिधीयते, यच नाना तत्कथमेकं स्यात् ।। १७२६ ॥
दृष्टान्ते न केवलं साध्यशून्यता, अपि तु साध्यविपर्ययेण हेतुाप्त इति दर्शयमाह-नानात्मत्वमित्यादि ।
नानात्मत्वं च शक्तीनां विवक्षामात्रनिर्मितम् ।
एकतत्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान् ॥१७२७॥ स्थादेतत्-यद्यपि भेद इति नानात्वमभिधीयते, तदेव नानात्वमेकस्य वस्तुनो भाविकं कथं विरुद्धं, येन तद्विपरीतं साधयद्विरुद्धं भवेदित्याह-एकमित्यादि।
एकमित्युच्यते तद्धि यत्तदेवेति गीयते । नानात्मकं तु तमाम न तवति यत्पुनः॥ १७२८ ॥