________________
पषिकासमेतः।
१४९ अयमत्र परमार्थ:-मेचकरनवदेकमेव वस्त्वनेकाकारम् , ते चाकाराः केचिदनुवृत्तिबुद्धिप्रामाः केचिद्यावृत्तिबुद्धिप्रायाः । तत्र येऽनुवृत्तिबुद्धिप्रामास्तेऽनुवृत्तया सामान्यमिति कीर्त्यन्ते, ये तु ततोऽपरे व्यावृत्तिबुद्धिप्रायास्ते घ्यावृत्तत्वाद्विशेषा इति कल्प्यन्ते, तत्रानुवृत्तिबुद्धिर्भावो भाव इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिर्षटोऽयं न पट इत्येवमादिभेदाकारा ॥ १७२० ॥ १७२१ ॥ १७२२ ॥ तदत्र प्रतिविधत्ते परस्परस्वभावत्व इत्यादि ।
परस्परखभावत्वे स्यात्सामान्यविशेषयोः। सायं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ १७२२ ॥ परस्पराखभावत्वेऽप्यनयोरनुषज्यते।।
नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥ १७२३ ॥ अत्र पक्षद्वयम् , किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत्सामान्यमन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे सार्य स्यात् । ततश्चेदं सामान्यमयं विशेष इति विभागाभावात्परमार्थत एकस्य वस्तुनो द्वैरूप्यं नोपपद्यते । अथ माभूत्साकर्यमिति द्वितीयः पक्षः समाश्रीयते । तत्र परस्पराखभावत्वेऽप्यङ्गीक्रियमाणे नानात्वं-स्वभावभेदः सामान्यविशेषयोः संप्रसज्यते । एवं झनयोरसांकर्य भवेद्यधनयो नात्वं स्यात् , ततश्चैवम्भावेऽपि नानात्वेऽपि वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्तम् । अथापि स्यात् यदि नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातस्तथापि सामान्यविशेषात्मकं वस्त्वमिन्नमवेति । तदेतत्तु परस्परविरुद्धम् । तथाहि-एकस्माद्वस्तुनः सामान्यविशेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं खभावविवेकः सिद्धयेत् , एकस्मादभेदे तयोरप्यभेदप्रसङ्गादेकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेके - जीक्रियमाणे ताभ्याममिन्नमेकं वस्तु न सिद्धयेत् , ताभ्याममिन्नत्वात्तस्याप्येकत्वेनामिमतस्स द्वित्वप्रसङ्गात्सामान्यविशेषस्वरूपवत् । तस्मादेकमुभयात्मकमिति परस्परल्याहतमेतत् ॥ १७२२ ॥ १७२३ ॥ सत्यपीत्यादिना सुमतेर्मतमाशते ।
सत्यप्येकखभावत्वे धर्मभेदोऽत्र सिद्धयति । भेदसंस्था(s)विरोधश्च यथा कारकशक्तिषु ॥ १७२४ ॥