________________
तत्त्वसष्ट्रहः।
अत्यन्तभिन्नता तस्माद्धटते नैव कस्यचित् ।
सर्व हि वस्तुरूपेण भिद्यते न परस्परम् ॥ १७१६ ॥ अन्यथेति । यदि च भावो भावान्तरातुल्यः स्यात्तदा किमिति घटादिध्वेव भावो भाव इत्यभिन्ना बुद्धिर्भवति नतु काकदन्तादिष्विति तत्र कारणं वक्तव्यम् ,' सारूप्यं कारणमिति चेत्तदेव तर्हि सामान्यमिति सिद्धं, सामान्यपर्यायत्वात्सारूप्यस्य । अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता शक्तिः कारणमिति चेत् । साऽप्यनेनैव सारूप्येणोपवर्णिता-व्याख्याता । सारूप्यवदत्रापि समानमुत्तरमिति यावत् । तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद्वस्तुरूपेण सर्व घटादि परस्परममिन्नमिति सिद्धम् ।। १७१४ ।। १७१५ ।। १७१६ ।। भेदसमर्थनार्थमाह-अवधीकृत इत्यादि ।
अवधीकृतवस्तुभ्यो वैरुप्यरहितं यदि । तद्वस्तु न भवेद्भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥ १७१७ ।। तेभ्यः खरूपं भिन्नं हि वैरूप्यमभिधीयते । वैरूप्यं न च भिन्नं चेत्येतदन्योन्यवाधितम् ॥ १७१८ ॥ तस्माद्भिन्नत्वमर्थानां कथंचिदुपगच्छता।
वैरूप्यमुपगन्तव्यं विशेषात्मकताऽप्यतः ॥ १७१९ ॥ अवधीकृतेभ्य इति । पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवेतदाऽभेदात्तेभ्यः पटादिभ्यस्तद्धटादि मिन्नं न भवेदात्मखरूपवदमिन्नत्वप्रसङ्गात् । तथाहि तेभ्यः पटादिभ्यो यद्विमिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनां नच घटादिभ्यो भेदोऽस्तीति ववचनव्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ १७१७ ॥ १७१८ ॥ १७१९ ॥
एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहारहेतुत्वं प्रतिपादयन्नाह-वस्त्वेकात्मकमेवेदमिति ।
वस्त्वेकात्मकमेवेदमनेकाकारमिष्यते । ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥ १७२० ॥ आया एतेऽनुवृत्तत्वात्सामान्यमिति कीर्तिताः । विशेषास्वभिधीयन्ते व्यावृत्तवात्ततोऽपरे ॥ १७२१ ॥