________________
पलिकासमेतः। चोचं ननु तदेवेत्यादिना परिहतं, तथापि विस्तरेण प्रतिपादनाय वादान्तरं वा दर्शयितुं पुनरुच्यते ॥ १७०९॥
तत्र सामान्यविशेषात्मकत्वसाधनाय यथाक्रममहीकः प्रयोगद्वयमाह-भाव इति ।
भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते ।
अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति ॥ १७१० ॥ किंचिद्विवक्षितं वस्तु घटादि, स यदि घटादिर्भावः पटादिना भावान्तरेणातुल्यः स्यात्-ततो यदि व्यावृत्तः स्यात् , तदा खपुष्पान्न तस्य विशेषः स्यात् , सर्वथा वस्त्वन्तराट्यावृत्तत्वात् , नच वस्त्वन्तराट्यावृत्तस्यान्या गतिः सम्भवति खपुष्पतां मुक्त्वा । तस्मात्तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं नाम सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् । विशेषात्मकत्वं तर्हि कथमिति चेदत्रोच्यते-अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिध्यति-स एव घटादि वो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात् , तेन घटादिना यद्यतुल्यो न भवेदिति यावत् । तदाऽयं घटोऽयं च पट इति पटादिभ्यो घटादिभिन्नो न सिद्ध्येत् , स्वस्वरूपवत् । मिद्यते च । तस्माद्विशेषात्मकत्वमपि सिद्धम् ॥ १७१०॥ सर्वथाऽपीत्यादिनाऽस्यैव प्रयोगद्वयस्यार्थ विस्तरेण समर्थयते ।
सर्वथाऽपि ह्यतुल्यत्वे ह्यभिप्रेतेऽस्य वस्तुनः । वस्त्वन्तरेण नियतं वस्तुत्वमवहीयते ॥ १७११ ॥ वस्तुनो हि निवृत्तस्य कान्या सम्भविनी गतिः । लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजवत् ॥ १७१२ ॥ तस्मात्खपुष्पातुल्यत्वमिच्छता तस्य वस्तुनः ।
वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥ १७१३ ॥ अन्यथा हि न सा बुद्धिरित्यादिना सामान्यात्मकत्वसाधनायोपपत्त्यन्तरमाह ।
अन्यथा हि न सा बुद्धिर्बलिभुग्दशनादिषु । वर्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥ १७१४ ॥ सारूप्यानियमोऽयं चेत्सामान्यं च तदेव नः। खभावानुगता शक्तिरनेनैवोपवर्णिता ॥ १७१५ ॥