________________
४८६
क्रियाविरोधः, यथा रूपरसयोश्चक्षुर्विज्ञाने, तथैकस्यानेकस्मिन्, यथा रूपस्य चक्षुःश्रोत्रविज्ञानयोः, तदर्थमेकस्यैकत्रेति चाह । तस्माद्विविध एवार्थः । तत्र शब्दादीनां प्रामाण्यं भवत्प्रत्यक्षे वार्थे भवेत्परोक्षे वेति पक्षद्वयम् । न तावदाद्येऽर्थे, कस्मात्प्रत्यक्षेन्तर्गतिप्राप्तेः, शाब्दादीनामभिन्नार्थविषयत्वात् । अथ प्रत्यक्षेणाधिगते सत्युत्तरकालं तैः पुनरधिगमः क्रियते, अत आह— वैफल्यं वा । गृहीतमहणात्स्मृतिवदप्रामाण्यप्रसङ्गात् । द्वितीयेऽपि पक्षे स परोक्षोऽर्थो विषयो भवन्साक्षाद्वा स्याद्व्यवधानाद्वा पराश्रयेण, तत्र तावन्न साक्षात्तस्यापरोक्षत्वप्रसङ्गात्प्रत्यक्षार्थवत् । यस्मादत एवासौ परोक्ष उच्यते यतः साक्षान्न ज्ञानं जनयति, साक्षात्स चेज्ज्ञानं जनयेत्कथमसौ परोक्ष इति वचनीयमेतत् । पराश्रयेणापि परोक्षार्थप्रतिपत्तिः सम्बद्धाद्वा स्यादसम्बद्धाद्वा, भेदाभासा वा स्यादभेदाभासा वेति चत्वारः पक्षाः सम्भवन्ति । भेदाभासा यथा - धूमसामान्यात्तार्णपार्णादिवह्निविशेषप्रतीतिः । अभेदाभासा यथा — धूमाद्विजातीयपरावृत्तवह्निमात्राध्यवसायिनी । तत्रासम्बन्धात्प्रतिपत्तावव्यवस्था स्यात्, यतः कुतश्चित्सर्वः प्रतीयेत । अथ भेदाभासा, तदा व्याप्तिः साध्येन हेतोर्न सङ्गच्छेत, विशेषेणान्वयायोगात् । ततश्चानैकान्तिकं स्यात् । अथाभेदाभासा तदाऽनुमान एवान्तर्भाव इति प्रतिपादयन्नाह - परोक्षविषयेत्यादि । अपरामृष्टतद्भेदेति । भेदप्रतिभासशून्या विजातीयपरावृत्तार्थमात्राध्यवसायिनी । यथा धूमाद्वह्निमात्रप्र तीतिः । एवम्भूता चेत्स्पष्टमेवानुमानं, सम्बन्धदर्शनोपायत्वात् धूमाद्वह्निप्रतीतिवत् ।। १७०२ ।। १७०३ ।। १७०४ ।। १७०५ ।। १७०६ ।। १७०७ ।। १७०८ ॥
1
इति प्रमाणान्तरपरीक्षा ।
तत्त्वसङ्ग्रहः ।
"
"अणीयसापि नांशेन मिश्रीभूतापरात्मक" मित्येतत्समर्थनार्थ चोद्योपक्रमपूर्वकमाह— नन्वित्यादि ।
नन्वनेकात्मकं वस्तु यथा मेचकरत्नवत् ।
प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ १७०९ ॥
यदुक्तम् — “अर्थक्रियासमर्थं च सदन्यदसदुच्यते । समावेशो न चैकत्र तयो - र्युक्तो विरोधतः ॥” इति । तदत्राहीकादयश्चोदयन्ति । सर्वमेव वस्तु सामान्यविशेषात्मकत्वेनानेकात्मकं, यथा शबलाभासं रत्नं, तत्कथं सदादीनां विरोधः, actor "समावेशो न चैकत्रे "ति । आदिशब्देन क्रियाक्रियैकत्वादयो गृह्यन्ते । यद्यपि चेदं
1