________________
पलिकासमेतः। एवं विस्तरेण प्रमाणान्तरं निराकृत्य सङ्केपेण निराकुर्वनाह-अथवेत्यादि ।
अथवाऽस्थान एवायमायासः क्रियते यतः ।
प्रत्यक्षश्च परोक्षश्च द्विधैवार्थो व्यवस्थितः ॥ १७०१॥ 4 द्विविध एव ह्यर्थः प्रत्यक्षः परोक्षश्च ।। १७०१॥
ननु चापरोऽप्यस्ति प्रत्यक्षाप्रत्यक्षः, नैव प्रत्यक्षो नाप्यप्रत्यक्ष इत्याह-उभयेत्यादि।
उभयानुभयात्मा हि नैवासौ युज्यते परः। एकस्यैकत्र विज्ञाने व्याहते हि क्रियाक्रिये ॥ १७०२॥ साक्षाद्धि ज्ञानजनकः प्रत्यक्षो ह्यर्थ उच्यते । यथोक्तविपरीतस्तु परोक्षः कृतिभिर्मतः ॥ १७०३ ॥ आद्यार्थविषयं तावन्नेदं शाब्दोपमादिकम् । प्रत्यक्षेऽन्तर्गतिप्राप्तेवैफल्यं वा स्मृतेरिव ॥ १७०४ ॥ परोक्षविषयत्वेऽपि सर्वेषां विषयः कथम् । यदि साक्षात्परोक्षोऽयं न स्यात्प्रत्यक्षवस्तुवत् ॥ १७०५॥ परव्यपाश्रयेणापि प्रतिपत्तौ किमस्य सा। सम्बद्धेतरतो नो वा भेदाभासा न वा तथा ॥ १७०६ ॥ असम्बद्धात्तदुद्भूतावव्यवस्था प्रसज्यते । न च संगच्छते व्याप्तिर्भेदाभासा भवेद्यदि ॥ १७०७ ॥ परोक्षविषया यावत्सम्बद्धार्थसमाश्रया। अपरामृष्टतद्भेदा प्रतीतिरनुमा स्फुटा ॥ १७०८ ॥
इति प्रमाणान्तरपरीक्षा । न टेकस्यान्योन्यप्रत्यनीकानेकधर्मसम्पातो युक्तः, एकत्वहानिप्रसङ्गात् , तथाहि -विशिष्टस्याव्यवधानेन यथागृहीतार्थावसायकारणस्य ज्ञानस्य साक्षाल्लिङ्गादिव्यवधानं विना जनकोऽर्थः प्रत्यक्ष उच्यते । एवं च कृत्वा क्षणिकः शब्द इत्यादिज्ञानमप्रत्यक्षार्थमिति सिद्धम् । नचैकस्य पदार्थस्यैकत्र क्रियाक्रिये युक्ते, येन विज्ञानजनकत्वाजनकत्वाभ्यां प्रत्यक्षाप्रत्यक्षस्वभावो भवेत् । नाप्यनुभयस्वभावो युक्तः, एकस्वभावनिषेधस्यापरस्वभावविधिनान्तरीयकत्वाद्वस्तुनः । अनेकस्य तु नैकत्र क्रिया.