Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 762
________________ पलिकासमेतः । ५११ फलाक्षेपशक्तिर्हि धर्माणां कारित्रमिति भवता वर्णितम् । साच फलाक्षेपशक्तिः प्राप्तिसती (कथं) भवेत् । नैव भवेदिति यावत् । ततश्च तद्वशादध्वव्यवस्थान वात्त्विकमेवेष्टं भवतीति भावः । किंच-यदेतदाहपाकाचर्थक्रियाकारि वहयाविरूपसुपलभ्यते, किं तदेवातीतानागतावस्थमाहोखिदन्यत् । यदि तदेव, कथमेकसिमिविशिष्टेऽस्मिन्रूपादिके वस्तुन्यक्रियादयः परस्परविरुद्धा धर्मा युज्यन्ते । येन यथाक्रममनागतवर्तमानातीतव्यवस्था स्यात् । यदि हि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्, उत्सना तर्हि भेदव्यवस्था, ततश्च सर्वमेव जगदेकमेव स्यात् । एकत्वे च सहोपत्यादिप्रसङ्गः । अथाप्यवस्थापरित्यागपरिग्रहभेदेन मिन्नत्वादध्वसु वस्तु न निर्विशिधमिति कल्पते, एवमपि किं ता अवस्था भावादिना माहोखिदमिन्ना इति वक्तव्यम् । पर आह-नेति । मियन्ते भावादिति सम्बन्धः । कस्मात् ?, भावस्थाकतताप्तितः-अकर्तृत्वप्रसङ्गात् । अन्वयव्यतिरेकाभ्यां तासामेवावस्थानां कार्य प्रति सामर्थ्यसिद्धेः ।। १८१० ॥ १८११ ॥ १८१२ ॥ १८१३ ॥ १८१४॥१८१५॥ अत्र दूषणमाह-अभेदमित्यादि । अभेदमनुमन्यन्ते कथमध्वसु वस्तुनः । ता अभूत्वा भवन्त्यश्च नश्यन्त्यश्च तदात्मिकाः ॥१८१६॥ अवस्थायां च मध्यायां खरूपेणैव कारकम् । तत्तदेव खरूपं च दशयोरन्ययोरपि ॥ १८१७॥ तदा क्रियाक्रियाशौ कथमस्य तयोर्मतौ। पररूपेण कर्तृत्वे प्राप्ताऽस्याकर्तृता पुनः ॥ १८१८॥ अतीतानागतावस्थमन्यच्चेदनलादिकम् । तत्साकादिदोषोऽयमस्मिन्पक्षे निरास्पदः ॥ १८१९ ॥ तदिदानीमभूत्वैव कार्ययोग्यं प्रजायते । न च तिष्ठति भूत्वेति सिद्धाऽस्यानन्वयात्मता ॥ १८२०॥ वस्तुनः सकाशादभेदं कथमवस्था (स्व)नुमन्यन्ते-प्रतिपद्यन्ते । नैव । यस्मादभूत्वा भवन्त्यवस्था भूत्वा च विनश्यन्ति । नच तथा वस्त्विष्टम् , सर्वदाऽस्तित्वाभ्युपगमात् । ततश्च कथं ता अभूत्वा भवन्यो विनश्यन्त्यश्च तदात्मिका युक्ताः । नैव । मिन्नयोगक्षेमत्वात् । अन्यथा हि तदात्मत्वेनासामपि सदाऽस्तित्वप्रसङ्गो वस्तु

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832