Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 761
________________ तत्वमा तत्वान्यत्वप्रकाराभ्यामवाच्यमय वर्ण्यते । सन्तानादीव कारित्रं स्यादेवं सांघृतं ननु ॥ १८०७ ॥ अतश्च कल्पितत्वेन तत्कचिन्नोपयुज्यते । कार्ये सन्ततिवद्यमाद्वरत्वेवार्थक्रियाक्षमम् ॥ १८०८॥ सन्निधानं च तस्येदं भाविकं नेति तत्कृतम् । अध्वत्रयव्यवस्थानं तात्विकं नोपपद्यते ।। १८०९ ॥ सन्तानादीवेति । आदिशब्देन समूहादिपरिग्रहः । यथा सन्तानिभ्यस्तत्त्वान्यत्वेनावाच्यत्वात्पुद्गलवत्सन्तानो निःस्वभावः (तथा कारित्रं निस्वभावं ) स्यात् , खभावे हि सति तत्त्वमन्यत्वं वाऽवश्यम्भावि, ततश्च तत्कारित्रं कल्पितत्वान्न कचि. कार्ये सन्ततिवदुपयुज्येत । नहि कल्पितस्य सन्तानस्य कचित्कार्येऽस्त्युपयोगस्तस्य निखभावत्वात् । स्वभावप्रतिबद्धत्वात्कार्योदयस्य । तस्माद्वस्त्वेव सन्तानिखभावम क्रियाक्षमम् । न सन्तानः कल्पितः । ततश्च कारित्रस्य प्रज्ञप्तिसत्त्वात्प्रागनु पश्चादपि न परमार्थतः सन्निधानमस्तीति तद्वशाध्वत्रयव्यवस्थानमपि कल्पितमेव स्थान भाविकम् ॥ १८०७ ॥ १८०८ ॥ १८०९ ॥ तथापि स्याद्भवतु कारित्रं प्रज्ञप्तिसत्, तत्कृतं चाप्यध्वव्यवस्थानं प्रज्ञप्तिसत् , ततश्च को दोष इत्याह-कारित्राख्येति । कारित्राख्या फलाक्षेपशक्तिर्या शब्दगोचरा । शक्तरेव च वस्तुवात्सा प्रज्ञप्तिसती कथम् ॥ १८१०॥ यचेदमिष्यते रूपं दाहपाकादिकार्यकृत् । अतीतानागतावस्थं किं तदेवाभ्युपेयते ॥ १८११ ॥ तदेव चेत्कथं नाम तस्यैवैकात्मनः सतः। अक्रिया च क्रिया चापि क्रियाविरतिरित्यपि ॥ १८१२॥ एकस्मिनिर्विशिष्टेस्मिन्परस्परपराहताः। प्रकाराः कथमेते हि युज्यन्ते नाम वस्तुनि ॥ १८१३ ॥ एकावस्थापरित्यागे परावस्थापरिग्रहात्। नैवैतनिर्विशिष्टं चेद्वस्त्वध्वखिति कल्प्यते ॥ १८१४ ॥ किं वै भावाद्विभियन्तेऽवस्था नाकर्तृतासितः । तासामेव हि सद्भावात्कार्यसत्तोपलभ्यते ॥ १८१५॥

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832