Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 757
________________ ५०६ तस्वसहा रूपादित्वम् । अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृयते ॥ १७८७ ॥ १७८८ ॥ १७८९ ॥ १७९० ॥ __ अथापि स्यात्-आकाशवत्सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथमित्याहनचैवमित्यादि । नचैवमिह मन्तव्यमध्वभेदः कुतो न्वयम् । कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यते ॥ १७९१ ॥ कारित्रे वर्तते यो हि वर्तमानः स उच्यते । कारित्रात्पच्युतोऽतीतस्तदप्राप्तस्त्वनागतः ॥ १७९२ ॥ फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु। न वाक्षेपोस्त्यतीतानां नातः कारित्रसम्भवः ॥ १७९३ ॥ यतः संप्राप्तकारित्रो वर्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽनागत इत्यध्वानः कारित्रेण व्यवस्थिताः । किं पुनरत्र कारित्रममिप्रेतम् , यदि दर्शनादिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम् । यतश्चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वं, विजानातीति कृत्वा रूपादीनामिन्द्रियगोचरत्वम् । एवं सति प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषो निद्राद्यवस्थायां कारित्राभावाद्वर्त्तमानता न स्यात् । अथ फलदानग्रहणलक्षणं कारित्रम्-यथा चक्षुषा सहभवा धर्मा जात्यादयः पुरुषाकारफलम् , अनन्तरोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत्फलं जननाप्रयच्छद्धेतुभावावस्थानागृहच्चक्षुर्वर्तमानमुच्यत इति । एवं तबतीतानामपि सभागसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमावर्त्तमानत्वप्रसङ्गः । अथ समस्तमेव फलदानग्रहणलक्षणं कारित्रमिष्यते । एवमतीतस्य सभागहेत्वादेरर्द्धवर्तमानत्वप्रसङ्ग इत्येतदोषभयादाचार्यसहन्तभद्र आह-धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, नतु फलजननं, नचातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति, वर्तमानावस्थायामेवाक्षितत्वात् । नचाक्षिप्तस्याक्षेपो युक्तोऽनवस्थाप्रसङ्गात् । तस्मादतीतानां न कारित्रसम्भव इति नास्ति लक्षणसङ्कर इति ॥ १७९१ ॥ १७९२ ॥ १७९३ ।। तैरित्यादिना प्रतिविधते। तः कारित्रमिदं धर्मादन्यत्तद्रूपमेव वा। अभ्युपेयं यदन्याऽस्ति गतिः काचिन्न वास्तवी ॥ १७९४ ॥

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832