Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 756
________________ पखिकासमेतः । ५०५ 1 1 द्यते । यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः । तथाहि — पूर्वस्वभावापरित्यागेन वा परिणामो भवेत्, परित्यागेन वा । यद्यपरित्यागेन तदाऽध्वसङ्करप्रसङ्गः । अथ परित्यागेन, तदा सदाऽस्तित्वविरोधः । द्वितीयस्यापि वादिनोऽयं सङ्कर एव, सर्वस्य • सर्वलक्षणयोगात् । पुरुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च समन्वागममात्रेण, नतु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणोऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दायन्तिकेन तृतीयस्य कारित्रेणाध्वव्यवस्थेति तस्य विस्तरेण दूषणं वक्ष्यते । चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवति । तथाहि । अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति । एषा दूषणदिगेषां स्पष्टा । तृतीयमेवारभ्य भूयत्रैकाल्यपरीक्षाऽऽरभ्यते । हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, नतु धर्मत्रातदर्शनमेवाभिमतम् । तथाच वक्ष्यति " कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यत" इति । नच धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ?, वसुमित्रस्य । तत्र यद्यतीतानागतं न स्यात्, अभून्महासम्मतो भविष्यति शङ्खचक्रवर्त्तीत्यतीताजातयोर्विज्ञानं निरालम्बनमेव स्यात् । ततश्च विज्ञानमेव न स्यादालम्बनाभावादिति भावः । तथाहि — प्रतिवस्तु विज्ञध्यात्मकं विज्ञानम्, असति च ज्ञेये न किश्विदनेन ज्ञेयमित्यविज्ञानमेव स्यात् । किश्व – द्वयं प्रतीत्य विज्ञानमुत्पद्यत इति भगवतोक्तम् "कतमहूयम्, चक्षूरूपाणि यावन्मनोधर्मा” इति । असति चातीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः । अपिचातीतं कर्म फलदं न स्याद्यदि तन्निःसत्त्वं सत्ताशून्यं भवेत्, फलोत्पत्तिकाले विपाकहेतोरभावात् । नचास्रतः कार्योत्पादनशक्तिरस्ति, सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य । किंच — आसीन्मान्धानो ब्रह्मदत्तो, भविष्यति शङ्खचक्रवर्त्ती मैत्रेयस्तथागत, इत्यादिना विभागेन योगिनामतीवादिविषयं विभक्तं विज्ञानं न स्यात् । न ह्यसतां विभागोऽस्ति । तस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः, अध्वसंगृहीतरूपादित्वेनोपदिष्टत्वाद्वर्त्तमानवत् । उक्तं हि भगवता - "अतीतं चेद्भिक्षवो रूपं नाभविष्यन श्रुतवानार्यभावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मान्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावको ऽतीतरूपेऽनपेक्षो भवतीति विस्तरः तथा यत्किंचिद्रूपमतीतमनागतादि तत्सर्वममिसंक्षिप्य रूपस्कन्ध इति सङ्ख्यां गच्छतीत्यादि । अध्वना सङ्घहो येषां तेऽध्वसङ्घहा रूपादयः । आदिशब्देन वेदनादिपरिग्रहः । तेषां भावो I

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832