Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 755
________________ ५०४ तत्त्वसहः। अतीताजातयोर्जानमन्यथाऽविषयं भवेत् । दूयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥ कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते । अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥१७८९॥ न द्रव्यापोहविषया अतीतानागतास्ततः । अध्वसनहरूपाद्विभावादेर्वर्तमानवत् ॥ १७९० ॥ तत्र भावान्यथावादी भदन्तधर्मत्रातः, स किलाह-धर्मस्याध्वसु वर्तमानस्य भावान्यथात्वमेव केवलं नतु द्रव्यस्येति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्यमिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथात्वम् । तथा हि-अनागतभावपरित्यागेन वर्तमानभावं प्रतिपद्यते धर्मो, वर्तमानभावपरित्यागेन चातीतभावम् , नतु द्रव्यान्यथात्वं, सर्वत्र द्रव्यस्याव्यभिचारात् । अन्यथाऽन्य एवानागतेऽन्यो वर्तमानोऽन्योऽतीत इति प्रसज्यते । कः पुनर्भावस्तेनेष्टः १ । गुणविशेषः, यतोऽतीताद्यमिधानज्ञानप्रवृत्तिः । लक्षणान्यथावादी भदन्तघोषकः । स किलाह । धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पमाभ्यां लक्षणाभ्यामवियुक्तः, यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त एवमनागतप्रत्युत्पन्नावपि वाच्ये । अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति पूर्वका दः । अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह-धर्मोऽध्वसु वर्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतो, न द्रव्यतः, द्रव्यस्य त्रिध्वपि कालेष्वमिन्नत्वात् । यथा मृगुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शताङ्के शतं, सहस्राङ्के सहस्रं, तथा कारित्रेऽवस्थितो भावो वर्तमानस्ततः प्रच्युतोऽतीतस्तदप्राप्तोऽनागत इति । अस्य व्यवस्थापेक्षया व्यवहारो यथा मृगुडिकायां, नहि तस्याः स्वभावान्यथात्वं भवति, किं तर्हि ?, स्थानविशेषसम्बन्धात्सङ्ख्यामिद्योतकं संज्ञान्तरमुत्पद्यते । अन्यथान्यथिको बुद्धदेवः, स किलाह-धर्मोऽध्वसु वर्तमानः पूर्वापरमपेक्ष्यान्योन्य उच्यत इति । यथैका स्त्री माता चोच्यते दुहिता चेति । अस्य पूर्वापरापेक्षो व्यवहारः, यस्य पूर्वमेवास्ति नापरः सोऽनागतः, यस्य पूर्वमस्ति अपरं च स वर्तमानः, यस्यापरमेव न पूर्व सोऽतीत, इत्येते चत्वारः सर्वेऽस्तिवादा भावलक्षणाऽवस्थान्यथान्यथिकसंहिताः । तत्र प्रथमः परिणामवादित्वात्सासमताम मि

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832