Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 746
________________ पविकासमेतः। ४९५ ते हि यावन्त आकारास्तस्मिन्वस्तुनि भाविकाः। तावन्त्येवा(थ) जातानि वस्तुनीत्येकनास्ति(ता स्थि)ता१७४९॥ एकं चित्रमिति परस्परविरुद्धमेतदिति 'यच्चित्रं न तदेक'मित्यादिना प्रतिपादिम् । यतो विचित्रमित्यनेकत्वमुच्यते । एकत्वानेकत्वयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः । तस्मान्नैकस्मिन्माविका बहव आकाराः सम्भवन्ति । अथापि स्युस्तथाप्येकस्यानेकत्वं न प्रतिपादितमेव तथाहि तावन्येवापराणि वस्तूनि जातानीति । यदि परं भाविकत्वेन प्रतिपादितं स्यात् । न त्वेकस्यानेकत्वं, परस्परविरोधात् ॥ १७४८ ॥ १७४९॥ यदुक्तं-'वस्तुनो हि निवृत्तस्य काऽन्या सम्भाविनी गति"रित्यत्राह-एकस्मादित्यादि। एकस्माद्वस्तुनोऽन्यत्वे तादात्म्यविकलं भवेत् । नाकाशपुष्पसङ्काशं तद्ध्यप्यर्थक्रियाक्षमम् ॥ १७५० ॥ यदि हि वस्तुमात्रात्परावृत्तिहेतुत्वेन क्रियते खपुष्पाविशेषत्वे साध्ये तदा हेतुरसिद्धः, नहि घटस्य वस्तुमात्राद्व्यावृत्तिः सिद्धा, किं तर्हि ?, स्वस्वभावं मुक्त्वाऽन्यस्माद्वस्तुविशेषात् । अथ वस्तुविशेषाद्यावृत्तिहेतुत्वेनोपादीयते तदाऽनैकान्तिको हेतुः । तथाहि-एकस्माद्धटादेर्वस्तुनो व्यावृत्तं घटादिकं वस्तु परतादात्म्यविकलं सियेनतु सर्वथा निःस्वभावं तस्याप्यर्थक्रियाकारित्वात् ॥ १७५० ॥ शक्तमित्यादिनैतदेवानैकान्तिकत्वं समर्थयते । शक्तं रूपं न चैकस्य वस्तुष्वन्येषु वर्तते । कार्योपलम्भनिर्भासभेदादेरिति वर्णितम् ॥ १७५१ ॥ अतद्वस्त्वात्मकत्वं तु तदश्लेषेण युज्यते। नाविशेषमवस्तुत्वं वस्तुलक्षणभावतः ॥ १७५२॥ यदि पर्थक्रियासामर्थ्यलक्षणं वस्तुत्वं नामानुयायि स्यात्ततो व्यावृत्तस्य निःखभावता स्यादर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः, यावता शक्तं रूपं यदेकस्य नीलादेस्तदन्येषु सितादिषु न वर्तत इति पूर्वमुक्तम् , “नीलायेव च वस्तुत्वमनुगामि यदी. ध्यत” इत्यादिना । कस्मात् ? । कार्यभेदादुपलम्भनिर्भासभेदाच । उपलम्भो ज्ञानं तस्म निर्भास आकारः । आदिशब्देनोत्पादस्थितिनिरोधादयो गृह्यन्ते । तस्मात्तदश्ले

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832