Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 751
________________ तत्त्वसार। कस्मिन्कार्ये कर्चव्ये स एव तेषां चक्षुरादीनां परस्परासकीर्णो जनकः खभावः कुत आयातो येन त एव तु कार्ये नियताः स्युरित्याशयाह-नियता इति । यदुक्तं भेदेन निर्विशिष्टत्वाच्छ्रवणाद्यपि जनकं तस्य किं नेष्टमिति, तदनेन परिहृतम् । तस्मात्स्वभावनियमाद्रेदेऽपि कश्चिजनको भवेनापर इति न किंचिद्विरुद्धम् । यदि तु पुनरेकखभावानुगतत्वेन मिन्ना अपि चक्षुरादयो जनकाः स्युस्तदैकस्तेषां स्वभावो जनक एकस्मिन्नपि कारणेऽस्तीति तत एवैकस्मात्कार्योत्पत्तिः स्यात् । ततश्च शेषसहकारिकारणवैयर्थ्यप्रसङ्गः स्यात् । अथ विशेषान्तरवैकल्यान्नैकस्मात्कार्योत्पत्तिरिति चेत् , ये ते विशेषा विकला इष्यन्ते तेषामशक्तत्वात् , कस्मात् ?, भेदात्-सम मिमतादनुयायिनः स्वभावादन्यत्वादिति यावत् , नचाशक्तस्य वैकल्ये कार्यानुत्पत्तियुक्ता, कस्यचिदनुत्पत्तिप्रसङ्गात् । अथापि स्यात्-नास्मामिः सामान्यविशेषाणां परस्परमत्यन्तभेद इष्टः, ततश्च भेदादित्यसिद्धो हेतुरित्याह-अभेदे वा विकला: कथमिति । सामान्याद्विशेषाणामभेदेऽङ्गीक्रियमाणे न तर्हि वक्तव्यं विशेषान्तरवैकल्यादेकं न जनकमिति । अतस्तस्मिन्सामान्ये तिष्ठत्यविकले सति तव्यतिरेकिणां विशेषाणामपि वैकल्यासिद्धिः । नहि यो यदेकयोगक्षेमो न भवति स तत्स्वभावो युक्तः । अपिच समान एवायं प्रसङ्गो भवतामपि, अन्वयस्याविशिष्टत्वात्किमिति सर्वः सर्व न जनयेत् । यथा भवतामन्वयस्याविशेषेऽपि सर्व सर्वस्य जनकं न भवति तथाऽस्माकमपीति यत्किञ्चिदेतत् । किंच-भेदाविशेषेऽपि कश्चिजनयति नापर इति जनकस्वभावप्रतिनियमादेवं भवेत् , एकस्य यः स्वभावो नासौ परस्येति कृत्वा, नचैवं सति किंचिद्विरुध्यते । यदा त्वनुगतस्यैकात्मनो जनकत्वं तदैकस्यैकस्मिन्कार्ये जनकत्वमजनकत्वं चेति कथं विधिप्रतिषेधौ युक्तावेकाधारौ । मिनाधिकरणौ तु न विरुद्धावित्यत एकस्येत्याह । अथापि स्यानास्माभिरेकान्वेनान्वय एवेष्टो येनैकस्यैकत्र जनकत्वाजनकत्वविरोधः स्यात् । किं तर्हि ? । भेदोऽप्यत्रास्ति । तेनाजनकत्वं न विरुद्धमिति । अस्तु भेदः, स किं जनकखभावाद्भेदस्तस्यैवानुगतस्य जनकात्मनोऽभीष्टः, आहोखिदन्यस्येति वक्तव्यम् । न तावत्तस्यैव, नहि स्वभावाद्वाबस्स परावृत्तिर्युक्ता, निःस्वभावत्वप्रसङ्गात् । नाप्यन्यस्य, भेदे तस्य जनकस्वभावस्याविकलस्साजनकत्वं युक्तमतिप्रसङ्गात् । भवतु वा तस्यैव स्वस्वभावाद्वेदस्तथा:प्येकस्य जनकत्वाजनकत्वविरोधो न परिहृत एव । तथाहि-भेदादपि तस्यैकस्याकारको भवेत् । ननु नान्योऽन्वयात् , किं तर्हि ?, स एवान्वयस्ततश्च स एवैकस्म

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832