Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 745
________________ ४९४ तत्त्वसमहः। यदा तु शबलं वस्तु युगपत्प्रतिपद्यते। - तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते ॥ १७४६ ॥ कल्माषवर्णः-शबलो वर्णः । तस्य यथा नीलमिति वा पीतमिति वा लोहितमिति वेत्यादिना यथेष्टं वर्णनिग्रहो-रूपावधारणं, तथा चित्रस्य-अनेकरूपस्य वस्तुनः स्वपररूपाभ्यां सदसदात्मनः सामान्यविशेषरूपाभ्यां व्यात्मन इच्छावशाहे. दाभेदावधारणे । यदा भेदमवधारयितुमिच्छति तदा तमवधारयति, यदा तु युगपसामान्यविशेषात्मकं वस्तु कु(झ?)गिति प्रतिपद्यते तदाऽन्यानन्यभेदादिचोधं प्रलीयते। नावतरतीत्यर्थः । प्रत्यक्षेण शबलस्य वस्तुनः प्रतीयमानत्वात् । तत्रेदमन्यानन्यादिचोद्यम्-मिन्नेभ्योऽश्वादिपिण्डेभ्योऽनन्यत्वात्सामान्यस्यापि पिण्डवत्स्वरूपभेदप्रसङ्गः, सामान्याद्वाप्यमिन्नत्वादभेदो भेदानां सामान्यस्येव प्रसज्यते । तथा भेदाभेदौ परस्परं सामान्यविशेषयोः कथं विरुद्धौ स्याताम् । आदिशब्देनैकत्वानेकत्वे परस्परविरुद्धे, तथा तदेव सामान्यं स एव विशेष, इत्येवमादि ग्रहीतव्यम् ॥ १७४५ ॥ ॥ १७४६॥ यद्येवं सर्वत्रैव शबलस्य प्रतीतिः स्यानतु क्रमयोगपद्याभ्यामित्याशङ्कयाह-वस्तुन इत्यादि । वस्तुनोऽनेकरूपस्य रूपमिष्टं विवक्षया । युगपत्क्रमवृत्तिभ्यां नान्योस्ति वचसां विधिः॥ १७४७ ।। युगपत् क्रमेण वा यदस्य सामान्यविशेषादिरूपं व्यवस्थाप्यते, तद्विवक्षावशात् । यदा यौगपद्येन सदसद्रूपे विवक्षति सामान्यविशेषरूपं वा तदा तस्य रूपं व्यवस्थाप्यते । अथ क्रमेण विवक्षति सद्रूपमसद्रूपं सामान्यविशेष वा तदाऽस्य तद्व्यवस्थाप्यते । सर्वमेव हि तस्य स्वरूपं क्रमाक्रमाभ्यां व्यपदिश्यते, विचित्ररत्नकोश इव मरकतपद्मरागादिरिति । अथ क्रमाक्रमौ मुक्त्वाऽन्येन प्रकारेण कस्मान्न निर्दिश्यत इत्याह-नान्योऽस्ति वचसां विधिरिति । युगपत्क्रमवृत्तिभ्यामित्यपेक्षणीयम् । विधिः-प्रकारः ॥ १७४७ ॥ नैवमित्यादिना प्रतिविधत्ते । नैवं चित्रखमेकत्वं प्रतिषिद्धं घनन्तरम् । अनेकरूपं वैचित्र्यमेकवेनासहस्थितम् ॥ १७४८ ॥

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832