Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 734
________________ पविकासमेतः । कार्यकारणताभावप्रतिपत्तिर्न संयता। तदत्रास्यां न भेदोऽस्ति साध्यसाधनयोर्यतः ॥ १६९६ ॥ कार्यकारणभावोऽभावश्चेति कार्यकारणताभावौ तयोः प्रतिपत्तिरिति विगृह्य स - कासः, तत्र कार्यकारणताप्रतिपत्तिर्युक्त्या, अभावप्रतिपत्तिरनुपलब्ध्येति यथाक्रमं सम्बन्धः । अस्यामिति । युक्तावनुपलब्धौ च प्रमाद्वयेऽपि न साध्यसाधनयोर्भेदः ॥ १६९६ ॥ ४८३ कथमित्याह —तद्भावेत्यादि । तद्भावभावितां मुक्त्वा न हेतुफलताऽपरा । दृश्यादृष्टिं विहायान्या नास्तिता न प्रतीयते ॥ १६९७ ॥ युक्तौ तावन्न साध्यसाधनयोर्भेद:, तथाहि तद्भावभाविता हेतु:, कार्यकारणता साध्या, न चानयोर्भेद उपलभ्यते, पर्यायत्वात्तरुपादपवत् । अनुपलब्धावपि च न भेदः, तथाहि —— यद्युपलम्भनिवृत्तिमात्रं विवक्षितं तदा तस्यासिद्धत्वात्पूर्ववदनवस्थादिदोषो वाच्यः । अथान्योपलब्धिरेवानुपलब्धिस्तदा दृश्यानुपलब्धावेवान्तर्भावः । अनया च नाभावः साध्यते, तस्य प्रत्यक्षेणैव सिद्धत्वात् । अत एवाह - दृश्यादृष्टिं विहायेत्यादि ।। १६९७ ॥ अथ तं नाभ्यां कार्यकारणताऽभावौ साध्येते, किं तर्हि, व्यवहार इति, तत्राह - तद्भावव्यवहार इत्यादि । तद्भावव्यवहारे तु योग्यतायाः प्रसाधने । सङ्केतका विज्ञातो विद्यतेऽर्थी निदर्शनम् ॥ १६९८ ॥ इति युक्त्यनुपलब्धिविचारः । 1 तयोर्हेतुफलताभावयोर्भावस्तद्भावस्तत्र व्यवहारो यः स तद्भावव्यवहारः । ज्ञानाभिधानप्रवृत्तिलक्षणमनुष्ठानं तस्मिन्योग्यता साध्यते । प्रयोगश्च – ये ययापारानन्तरनियतोपलभ्यस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलभ्यस्वभावा घटादय:, तथाच ताल्वादिव्यापारानन्तरनियतोपलभ्यस्वभावाः शब्दा इति स्वभावहेतुः । तथानुपलब्धावपि व्यवहारे साध्ये प्रयोगः– येषामुपलब्धिलक्षणप्राप्तामिमतानां येष्वनुपलब्धिस्ते तदभावव्यवहारयोग्याः, तद्यथा विषाणाभावव्यवहारयोग्याः शशशमस्तकादयः, उपलब्धिलक्ष

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832