________________
पविकासमेतः ।
कार्यकारणताभावप्रतिपत्तिर्न संयता।
तदत्रास्यां न भेदोऽस्ति साध्यसाधनयोर्यतः ॥ १६९६ ॥ कार्यकारणभावोऽभावश्चेति कार्यकारणताभावौ तयोः प्रतिपत्तिरिति विगृह्य स - कासः, तत्र कार्यकारणताप्रतिपत्तिर्युक्त्या, अभावप्रतिपत्तिरनुपलब्ध्येति यथाक्रमं सम्बन्धः । अस्यामिति । युक्तावनुपलब्धौ च प्रमाद्वयेऽपि न साध्यसाधनयोर्भेदः ॥ १६९६ ॥
४८३
कथमित्याह —तद्भावेत्यादि ।
तद्भावभावितां मुक्त्वा न हेतुफलताऽपरा । दृश्यादृष्टिं विहायान्या नास्तिता न प्रतीयते ॥ १६९७ ॥ युक्तौ तावन्न साध्यसाधनयोर्भेद:, तथाहि तद्भावभाविता हेतु:, कार्यकारणता साध्या, न चानयोर्भेद उपलभ्यते, पर्यायत्वात्तरुपादपवत् । अनुपलब्धावपि च न भेदः, तथाहि —— यद्युपलम्भनिवृत्तिमात्रं विवक्षितं तदा तस्यासिद्धत्वात्पूर्ववदनवस्थादिदोषो वाच्यः । अथान्योपलब्धिरेवानुपलब्धिस्तदा दृश्यानुपलब्धावेवान्तर्भावः । अनया च नाभावः साध्यते, तस्य प्रत्यक्षेणैव सिद्धत्वात् । अत एवाह - दृश्यादृष्टिं विहायेत्यादि ।। १६९७ ॥
अथ तं नाभ्यां कार्यकारणताऽभावौ साध्येते, किं तर्हि, व्यवहार इति, तत्राह - तद्भावव्यवहार इत्यादि ।
तद्भावव्यवहारे तु योग्यतायाः प्रसाधने ।
सङ्केतका विज्ञातो विद्यतेऽर्थी निदर्शनम् ॥ १६९८ ॥
इति युक्त्यनुपलब्धिविचारः ।
1
तयोर्हेतुफलताभावयोर्भावस्तद्भावस्तत्र व्यवहारो यः स तद्भावव्यवहारः । ज्ञानाभिधानप्रवृत्तिलक्षणमनुष्ठानं तस्मिन्योग्यता साध्यते । प्रयोगश्च – ये ययापारानन्तरनियतोपलभ्यस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलभ्यस्वभावा घटादय:, तथाच ताल्वादिव्यापारानन्तरनियतोपलभ्यस्वभावाः शब्दा इति स्वभावहेतुः । तथानुपलब्धावपि व्यवहारे साध्ये प्रयोगः– येषामुपलब्धिलक्षणप्राप्तामिमतानां येष्वनुपलब्धिस्ते तदभावव्यवहारयोग्याः, तद्यथा विषाणाभावव्यवहारयोग्याः शशशमस्तकादयः, उपलब्धिलक्ष