________________
४८२
तत्त्वसङ्ग्रहः ।
तादृश्यस्त्यनुरूपतेति । अन्योपलब्धिलक्षणानुपलब्धिरभाव: ( इति ) । यचाप्येके चोदयन्ति — ननु वस्त्वभावमात्रालम्बनस्य प्रत्ययस्य प्रत्यक्षादौ न कचिदन्तर्भावोऽस्ति, वस्तुविरहमात्रालम्बनत्वादस्य, प्रत्यक्षादेव वस्तुविषयत्वात् । नचास्याप्रामाण्यम विसंवादित्वात्, नहि भवद्भिर्वस्तूनां निरन्वयं विनाशमिच्छद्भिर्वस्तु वि. रहो नेष्यत इति । तदप्यनेन प्रत्युक्तम् । नहि तेन विकल्पे (न) तद्देशकालादिविशेषणरहितमभावमात्रमालम्ब्यते । किं तर्हि । क्वचिद्देशादौ घटादि नास्तीत्यनेन रूपेण सविशेषणमेव । तच्च केवलस्यैव देशादेर्प्रहणसामर्थ्यादेवं भवतीति न पृथगस्य प्रामाण्यम्, प्रत्यक्षगृहीतस्यैव केवलस्य देशादेस्तथा विकल्पनात् । सत्यपि वा निविशेषणस्याभावस्य ग्रहणे न तद्राहिणो ज्ञानस्य प्रामाण्यं युक्तमवस्तुविषयत्वात् । अर्थक्रियार्थिनां च प्रमाणचिन्ताया वस्त्वधिष्ठानत्वादिति यत्किंचिदेतत् ॥ १६९९१ ॥
इत्यभावविचारः ।
युक्त्यनुपलब्धी अधिकृत्याह — अस्मिन्सतीत्यादि ।
अस्मिन्सति भवत्येव न भवत्यसतीति च । तस्मादतो भवत्येव युक्तिरेषाऽभिधीयते ॥ १६९२ ॥ प्रमाणान्तरमेवेयमित्याह चरको मुनिः । नानुमानमियं यस्माद्दृष्टान्तोऽत्र न लभ्यते ॥ १६९३ ॥ उपलब्ध्या यया योऽर्थो ज्ञायते तद्भावतः । नास्तित्वं गम्यते तस्यानुपलब्धिरियं मता ॥ १६९४ ॥ प्रमाणान्तरमेषाऽपि दृष्टान्ताद्यनपेक्षणात् । दृष्टान्तेऽपि हि नास्तित्वमनयैव प्रसिद्ध्यति ॥ १६९५ ॥ तद्भावभावित्वेन यत्कार्यता प्रतिपत्तिरियं युक्तिः, इयं च सविकल्पकत्वान्न प्रत्यक्षं, नाप्यनुमानं, दृष्टान्ताभावात्, तथाहि — दृष्टान्तोऽपि - - अत एव तद्भावभावित्वातत्कार्यताप्रतिपत्तिः, तत्रापि दृष्टान्तोऽन्वेषणीयस्तत्राप्यपर इत्यनवस्था स्यात्, तस्मात्प्रमाणान्तरमेवेयमित्याह चरको - वैद्यः । तथा या चोपलब्धिनिवृत्त्या नास्तित्वप्रतीतिरियमनुपलब्धिः । अस्या अपि प्रमाणान्तरत्वे युक्तिवदेव न्यायोऽन्वेषणीयः ।। १६९२ ।। १६९३ ।। १६९४ ।। १६९५ ॥
कार्येत्यादिना प्रतिविधत्ते ।