________________
पषिकासमेतः। सर्वशन्दविवेकोऽपि कार्यादृष्टेः प्रतीयते।
साच सिद्धाऽन्ततोऽन्येषां विज्ञानानां खवेदनात्॥१६८९॥ राशेरिति । संविचाविति सम्बन्धः । यस्मात्तमेव प्रकाशतमसो राशिमाकाशमिति प्रतिपत्ता प्रतिपद्यते, नान्यत् । तथाहि-दिवा निशि वेदमिन्द्रनीलसङ्काशमिदं जलघरनिकाशमिति वा प्रतिपद्यते । न चाकाशस्य परिकल्पितस्य वर्णसंस्थानादिरस्ति । ततोऽन्यस्येति । प्रकाशतमोराशिव्यतिरेकेण परपरिकल्पितस्याकाशस्यासत्त्वात् । सत्त्वेवाऽतीन्द्रियत्वात् । सर्वशब्दविवेकोऽपि श्रोत्रज्ञानस्य कार्यस्यानुपलब्ध्या गम्यते। सा चानुपलब्धिरन्येषां चक्षुरादिज्ञानानां संवेदनासिद्धेत्यस्त्येवात्राप्येकोपलम्भोऽन्यविज्ञानसंवेदनलक्षणः । ननु नहि कार्यसत्तया कारणसत्ता व्याप्ता, येन सा कार्यसत्ता निवर्तमाना तामपि निवर्तयेत् । यतो नावश्यं कारणानि वर्द्धति (अर्थवन्ति ?) भवन्ति । न ब्रूमः सर्वा कारणसत्ता कार्यसत्तया व्याप्तेति, किं तर्हि ?, विशिष्टैवाऽप्रतिबद्धसामर्थ्यलक्षणा, तस्या एवात्र निषेधः क्रियते, न सर्वस्याः । तथाहि यत्रापि केवलप्रदेशोपलम्भाटाभावसिद्धिः, सापि घटोपलम्भाख्यकार्यानुपलब्धिरेव । यत उपलब्धिलक्षणप्राप्तस्यैव घटस्याभावः साध्यते, न सर्वस्य । कञ्चोपलब्धिलक्षणप्राप्तः ? । य एवाप्रतिबद्धसामर्थ्यः । यत उपलब्धिलक्षणं स्वभावविशेषो वर्णितः-यः स्वभावः स प्रत्यक्ष एव भवतीति । अन्यथा ह्यत्रापि घटोपलब्ध्या घटसत्ता न व्याप्ता स्यात्ततश्चाव्यापकस्य निवृत्तौ नाव्याप्तस्य निवृत्तिरिति ततो घटाभावों न सिद्ध्येत् । तस्मात्सर्वैव स्वभावानुपलब्धिरसद्व्यवहारहेतुः । परमार्थतः कार्यानुपलब्धिरेव द्रष्टव्या ॥ १६८८ ॥ १६८९ ॥ इत्थमित्यादिनाऽभावशब्दवाच्यत्वादित्यस्य हेतोरनैकान्तिकत्वमाह
इत्थं च वस्तुरूपत्वे स्थितेऽभावप्रमात्मनः।
अभावशब्दवाच्यत्वमन्तर्भावेऽप्यबाधितम् ॥ १६९०॥ इत्थमिति । एकस्य या दृष्टिः सैवान्या दृष्टिरुच्यत इत्यादिना । अन्तर्भावेऽप्यबाधितमिति । अभावस्य प्रत्यक्षान्तर्भावेऽप्यभावशब्दवाच्यत्वमविरुद्धमित्यर्थः । ए. तेन हेतोर्विपक्षादव्यावृत्तिमाह ॥ १६९० ॥
अभावो वा प्रमाणेन खानुरूपेण मीयते। इत्यत्र सिद्धसाध्यत्वं तादृश्यस्त्यनुरूपता ॥ १६९१ ॥ .
इत्यभावविचारः।