________________
४८०
तत्त्वसङ्ग्रहः । त्रयपर्यनुयोगस्य प्रत्येकं सति सम्भवे । अनवस्थितयो बहयो विसर्पिण्यः स्युरत्र ते ॥१६८५ ॥ तुल्ययोग्यात्मनस्तस्मादेकस्यैवोपलम्भनात्। . असनिश्चययोग्यवमन्येषां संप्रतीयते ॥ १६८६ ॥ एकस्य कस्य संवित्तावचन्द्रं गम्यते नमः।
सर्वशब्दविवेकश्च क्वचिनिश्चीयते कथम् ॥ १६८७॥ केचिल्लिङ्गसमधिगम्यां बुद्धिमिच्छन्ति, तञ्च लिङ्गमर्थज्ञानं वा क्रियारूपं इन्द्रि. यार्थो वा व्यक्तो वा विषय इत्यादिकम् । केचिद्गुयन्तरप्रत्यक्षां बुद्धिमिच्छन्ति, न स्वसंविद्रूपां, स्वात्मनि कारित्व(कर्मत्व ?)विरोधात् । केचिज्ज्ञातार्थान्यथानुपपत्त्या, झातोऽर्थो न सिद्ध्यति यदि बुद्धिर्न भवेत् , तस्य स्वयं जडरूपत्वात् । अतः पक्षत्रयमुक्तम् । तस्य लिङ्गादित्रयस्य यः प्रत्येकं पर्यनुयोगः, तस्यापि लिङ्गादेः कुतः सिद्विरिति, तस्य सम्भवे सति बह्वयोऽनवस्थितयः प्रसर्पन्ति । तथाहि-तदपि लिङ्गादित्रयं बुद्धरसिद्धावसिद्धमिति तस्यापि परतः सिद्धिरन्वेष्टव्या, तत्राप्यपरलिङ्गादिसमाश्रयणे सर्वत्र पर्यनुयोगे चानवस्थाप्रसङ्गः । तस्मादेकस्योपलम्भादन्येषामसत्त्वं प्रतीयते, तद्देशकालस्य निषेधे कर्तव्ये तुल्ययोग्यात्मनामेव निषेधः कार्यः । अन्येषां तत्र निषेदुमशक्यत्वात् । तादात्म्यनिषेधे तु सर्वस्यैव निषेधः कार्यो दृष्टः, तदन्यत्वेन सर्वस्य व्यवस्थापनात् । तदात्मा न परात्मेति कृत्वा । ननु चाकाशे चन्द्राभावं यदाऽध्यवस्यति तदा नैकस्य तत्रोपलम्भः, येनोच्यते एकोपलाम्भादन्याभावसिद्धिरिति, न ह्याकाशं नाम किंचित्परमार्थतोऽस्ति, यच्चन्द्रविविक्तं दृश्येत । यदपि परैवस्तु सत्कल्पितं, तदप्यतीन्द्रियं, यश्च कचित्प्रदेशे शब्दाभावनिश्चयः, स कस्योपलम्भात् । न तावद्भूभागोपलम्भादिति वक्तव्यम् , तस्य शब्देनातुल्ययोग्यावस्थत्वात् । तथाहि-भूभागश्चाक्षुषः, शब्दस्तु श्रावणः, तुल्ययोग्यावस्थयोश्च परस्परापेक्षमन्यत्वमिष्टम् , एकज्ञानसंसर्गिणोऽपरस्परापेक्षमन्यत्वमिति वचनात् । नापि कालस्योपलम्भादिति वाच्यम् , नहि परा(दा?)र्थव्यतिरिक्तः कालोऽस्ति यस्योपलम्भः स्यात् । योऽपि परिष्टांश(स्सोऽ)प्यतीन्द्रियः ॥ १६८४ ॥ १६८५ ।। १६८६ ॥ १६८७॥ प्रकाशेत्यादिना प्रतिविधत्ते।
प्रकाशतमसो राशेस्तमेव व्योम मन्यते । प्रतिपत्ता यतोऽन्यस्य न सत्त्वं न च दर्शनम् ॥ १६८८ ॥