________________
पलिकासमेतः। ज्ञानरूपविविक्तश्च सोभावो गम्यते कथम् । तद्गोचरप्रमाभावादेवं तर्थनवस्थितिः ॥ १६८१ ॥ वस्त्वभावात्प्रमाणस्य प्रमाभावाच वस्तुनः । नास्तिता यदि गम्येत भवेदन्योन्यसंश्रयः ॥१६८२॥ तस्मादेकस्य या दृष्टि सैवान्यादृष्टिरुच्यते ।
सा च खतनसंसिद्धिः खरूपेणाजडत्वतः ॥ १६८३ ॥ नच प्रमाणहेतुत्वादुपचारेण कल्पना युक्ता, यतो नीरूपस्य सर्वसामर्थ्य विरहलक्षणत्वान्न हेतुत्वसम्भवो युक्तः । सम्भवे वा नीरूपताहानिप्रसङ्गात् । तस्याविशेषातदावे विज्ञानानुपरमप्रसङ्गाच्च । किंच-नासिद्धस्य गमकत्वं युक्तमतिप्रसङ्गादिति पूर्वमुक्तम् , सा च तस्याभावस्य सिद्धिः कथमिति वक्तव्यम् , न तावत्स्वत एव तस्य सिद्धिः, प्रमेयाभावस्यापि स्वत एव सिद्धिप्रसङ्गात् । ततश्चाभावकल्पना व्यर्था स्यात् , प्रमेयाभावसिद्ध्यर्थत्वात्तस्याः, तस्य च प्रमेयाभावस्य प्रमाणाभाववस्वत एव सिद्धत्वात् । नापि स्वसंवित्त्या तस्य सिद्धिः, यतो ज्ञानरूपविविक्तोऽसौ कथं स्वसं. वित्त्या गम्येत । ज्ञानात्मन एव तयाधिगमात् । अथान्यस्मात्तद्विषयप्रमाणाभावात्तसिद्धिः, तस्यापि तद्विषयस्य प्रमाणाभावस्य कथं सिद्धिः ?, तस्याप्यन्यतः सिद्धाबनवस्था स्यात् । यथोक्तम्-"अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थिति"रिति । अथ माभूदनवस्थितिः, प्रमेयाभावात्तस्य सिद्धिरभ्युपगम्यते । एवं सतीतरेतराश्रयत्वं प्राप्नोति । तथाहि-वस्तुनः प्रमेयस्याभावात्प्रमाणाभावसिद्धिः तस्य सिद्धौ च प्रमेयाभावसिद्धिरिति स्फुटतरमेवात्रावतरतीतरेतराश्रयदोषः । तदयं गडुप्रवेशेऽक्षताराविनिर्गमः । तस्मादेकोपलब्धिरेवान्यस्थानुपलब्धिरिति नाभावो नाम पृथक्प्रमाणं प्रत्यक्षात् । स्यादेतत्साऽप्येकोपलब्धिः कथं सिद्धा, तत्राप्यभाववत्समानप्रसङ्ग इत्याह-सा चेत्यादि । सा चैकस्य दृष्टिः खयमेव खतबा सिद्धा नान्यत इति नानवस्थाप्रसङ्गः । कस्मात् । स्वरूपेणप्रकृत्यैव, अजडरूपत्वात्-प्रकाशस्वभावत्वात् । नच सत्तामात्रेण संवित्तावविप्रसमोऽन्येषामतद्रूपत्वात् ॥ १६८० ॥ १६८१ ॥ १६८२ ॥ १६८३ ॥ अथ परतो बुद्धिसंसिद्धौ कः प्रद्वेष इत्याह-बुद्धरित्यादि ।
बुद्धेरपरतः सिद्धिर्लिङ्गाबुद्ध्यन्तरादपि। । अन्यथाऽनुपपत्तेर्वा सर्वथाऽपि न सम्भवः ॥ १६८४ ॥