________________
तस्वसहः।
व्यापकविरुद्धोपलब्धिः । स्वसाध्यायामित्यादिना परो हेतोरसिद्धिमुद्भावयति । तथाहि-तदेवैकं वस्तु स्वसाध्यायामर्थक्रियायां समर्थम् , अन्यसाध्यायां त्वसमर्थ, ततश्चार्थक्रियाकारित्वलक्षणो हेतुरसिद्धः । नहि परसाध्यामर्थक्रियामपेक्ष्यार्थक्रियाकारित्वं वस्तुनः सिद्धम् । नच सदसद्रूपयोः परस्परविरोधः, अपेक्षाभेदात् । तथाहि ।
-खसाध्यामर्थक्रियामपेक्ष्य सदुच्यते, अन्यसाध्यां त्वपेक्ष्यासदिति, यदि तु स्वसाध्यामेवापेक्ष्यासदुच्येत स्यात्परस्परविरोधः । अत्र परिहारमाह-ननु तदेवेति । यदेव खसाध्यायां समर्थ वस्तुखरूपं तदेव परसाध्यायामसमर्थ नान्यत् । नापेक्षाभेदेन शब्दभेदाद्वस्तु मिद्यते । निरंशत्वात्तस्य । तदिति । तस्मादर्थे तत् । तस्मात् नैकत्र द्विरूपत्वमस्ति । अथान्यदेव रूपमन्यसाध्यायामर्थक्रियायामसमर्थ नतु तदेवे. त्याह-अन्यदेवेति । एवं तर्हि यदर्थक्रियासमर्थ तदेकं वस्तु, यथासमर्थ तहितीयमिति वस्तुद्वयमेव केवलं भवता प्रतिपादितम् , नत्वेकस्योभयात्मत्वम् ॥ १६७५॥ ॥ १६७६ ॥ १६७७ ॥ प्रमाणनिवृत्तिमात्रात्मके तृतीयेऽभावलक्षणे दूषणमाह-अभावस्येत्यादि ।
अभावस्य च वस्तुत्वे पूर्वमङ्गीकृते सति ।
नीरूपता पुनस्तस्य किमर्थमुपवर्ण्यते ॥ १६७८ ॥ पूर्वमङ्गीकृत इति । साऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनीति वचनात् । नीरूपता पुनस्तस्येति । मानमप्येवमिष्यतामिति वचनाद्विषयाधिगमलक्षणत्वात्प्रमाणस्य न युक्तं नीरूपस्य प्रामाण्यमिति वक्ष्यमाणोऽभिप्रायः ॥ १६७८ ॥ तमेवामिप्रायं दर्शयन्नाह-नीरूपस्येत्यादि ।
नीरूपस्य हि विज्ञानरूपहानौ प्रमाणता।
न युज्यते प्रमेयस्य सा हि संवित्तिलक्षणा ॥ १६७९ ॥ सेति । प्रमाणता । यत्प्रमेयाधिगतिरूपं न भवति न तत्प्रमाणं, यथा घटादि, प्रमेयाधिगतिशून्यश्वाभाव इति व्यापकानुपलब्धिः ॥ १६७९ ॥
सादेतचक्षुरादयो न प्रमेयाधिगतिरूपाः, अथ च प्रमेयाधिगतिहेतुत्वात्प्रमाणमु. च्यन्ते, तदभावोपीयनैकान्तिको हेतुरित्याह-तद्धेतुत्वादित्यादि ।
तद्धतुत्वात्प्रमाणं चेचक्षुरादिवदुच्यते । बनीरूपस्य हेतुत्वसम्भवोऽस्ति कदाचन ॥ १६८०॥