________________
.पत्रिकासमेतः। प्रत्यक्षाचवतारश्च भावांशो गृह्यते यदा।
व्यापारस्तदनुत्पत्तेरभावांशे जिक्षिते ॥ १६७३ ॥ स्यात्प्रमेयाभावो यद्येकात्मकमेव वस्तु स्यात् , यावता स्वरूपपररूपाभ्यां यथाकम सदसदात्मत्वेनोभयात्मकं वस्तु, तस्मिन्नुभयात्मके वस्तुनि स्थिते, किंचिद्रूपंखभावः, कैश्चित्प्रमाणैर्ज्ञायते, न सर्व सर्वैः । एतदेव दर्शयति-प्रत्यक्षेयादि । भावांशो यदा गृह्यते तदा प्रत्यक्षादीनां पञ्चानां व्यापारो नाभावस्थ, अभावांशे प्र. हीतुमिष्टे, तदनुत्पत्तेापार:-तेषां प्रत्यक्षादीनामनुत्पत्तेरभावस्येति यावत्।।१६७२॥ ॥ १६७३ ॥
स्थादसिद्धता हेतोर्ययेकस्योभयात्मकत्वं स्यात् , यावता विरुद्धमेकस्योभयात्मत्वमिति प्रतिपादयन्नाह-स्वरूपमेवेत्यादि ।
खरूपमेव वस्तूनां ननु व्यावृत्तमिष्यते ।
तेनात्मना सदेतच प्रत्यक्षममुनाऽत्मना ॥ १६७४ ॥ नहि पररूपेण वस्तु वस्त्वन्तराव्यावृत्तं, किं तर्हि ?, स्वरूपेण, अतश्च खरूपमेव -स्वभाव एव वस्तूनां वस्त्वन्तराळ्यावृत्तमुपलभ्यते । स्वस्वभावावस्थानात् । येन चात्मना व्यावृत्तं तेन तद्वस्तु सदेव नासत् । एतच्च वस्तु प्रत्यक्षममुनाऽन्यव्यावृत्तेमात्मनेति न द्वितीयरूपोपलब्धिः ॥ १६७४ ॥
एवं तावत्प्रत्यक्षविरुद्धमुभयात्मकत्वप्रतिज्ञानमुद्भावितम् , इदानीमनुमानविरुद्धं प्रतिपादयन्नाह-अर्थक्रियेति ।
अर्थक्रियासमर्थं च सदन्यदसदुच्यते।। समावेशो न चैकत्र तयोर्युक्तो विरोधतः ॥ १६७५ ॥ खसाध्यायां समर्थ चेदन्यस्यामक्षमं ननु । तदेतद्धि द्विरूपत्वं नैवैकत्रास्ति वस्तुनि ॥ १६७६ ॥ अन्यदेवासमर्थ तु यद्यन्यस्यामितीष्यते ।
द्वे तदा वस्तुनी प्राप्ते तनैकस्य द्विरूपता ॥ १६७७ ॥ यदर्थक्रियाकारि तत्सत् , यथा सत्त्वेनामिमतं रूपं, अ(न)र्थक्रियाकारि चासत्वेनामिमतं रूपमिति स्वभावहेतुः । यौ च परस्परविरुद्धौ न तयोरेकस्मिन्वस्तुनि युगपदुपलयनं, यथा छायातपयोः शीतोष्णयोर्वा, परस्परविरुद्धे च सदसद्रूपे, इति