________________
तत्त्वसङ्ग्रहः ।
शक्यदर्शनस्य-उपलब्धिलक्षणप्राप्तस्य वस्तुनः,
आभा - आकारो यस्य तत्तथा, शक्यदर्शनवस्त्वाभं च तत्प्रत्यक्षं चेति कर्मधारयः । नान्येषामिति । अनुमानादीनाम् । यतस्तेषां परोक्ष एवार्थो विषयः । नच तेषां निवृत्तौ परोक्षस्य देशकालस्वभावविप्रकृष्टस्य निवृत्तिरस्तीति । अतो व्यभिचारिणी तेषां निवृत्तिः । ततश्च प्रत्यक्षादेरनुत्पत्तिरित्यत्रादिग्रहणमनर्थकं स्यात् । अपिच तदन्यवस्तुनि विज्ञानं यदि निश्चितं भवेदेवं प्रतियोगिनोऽभावं साधयतीत्येवमवश्याभ्युपगन्तव्यम् । अन्यथा हि सत्तामात्रेण ततोऽभावसिद्धौ सत्यां सर्वस्य पुंसस्तस्मादेकपुरुषोत्पन्नादपि ज्ञानादभावसिद्धिप्रसङ्गः स्यात् । तत्र येन मीमांसकेनाप्रत्यक्षा बुद्धिरभ्युपगता तेन तदेव तद्न्यवस्तुनि जातं विज्ञानं कथं ज्ञायेत । नैव । अर्थापत्तितो यदीति । ज्ञायत इति प्रकृतेन सम्बन्धः । यथोक्तम् — अज्ञातेऽर्थे बुद्धेरसिद्धेरर्थज्ञानालिङ्गात्तद्बुद्धिरनुमीयत इति । अत्र हि लिङ्गवचनमन्यथाऽनुपपत्तिवाचकम् | अर्थज्ञानादन्यथाऽनुपपन्नादित्यर्थः । अनुमीयते - प्रमीयत इति यावत् । एवं तर्हि साऽप्यर्थापत्तिर्ज्ञानात्मिकेति तस्या अपि कुतो गतिरिति वक्तव्यम् । अन्यस्या अर्थापत्तेरिति चेदेवं सत्यनवस्था स्यात् । किंच — यदि वस्तुत्वमभावस्याभ्युपगम्यते तदा यथा प्रमाणाभावो वस्तु तथा प्रमेयाभावोऽपीति, ततश्चाभावो वस्तुत्वात्प्रत्यक्ष एव किमिति नाभ्युपगम्यते । येन तदधिगतयेऽन्यत्प्रमाणान्तरमभावाख्यं परिकल्प्येत ।। १६६७ ।। १६६८ ॥ ॥ १६६९ ।। १६७० ॥
४७६
कार्यादीनामित्यादिना प्रत्यक्षान्तर्गतत्वमेव समर्थयते ।
कार्यादीनामभावो हि भावो यः कारणादिना । सारविविक्तात्मा प्रत्यक्षेणैव गम्यते ॥ १६७१ ॥
तथाचोक्तम् — कार्यादीनामभावो हि भावो यः करणादिनेति, स च कारणादेर्भावोऽपरविविक्तात्मा —— कार्यादिविविक्तस्वभावः, प्रत्यक्ष एवेति किमभावस्यापरं प्रमेयमस्ति येन प्रमाणान्तरं स्यात् । प्रयोगः — यस्य यतो व्यतिरिक्तं प्रमेयं नास्ति तत्ततो न प्रमाणान्तरं, यथा सप्तमं प्रमाणं, नास्ति च प्रमेयं प्रत्यक्षप्रमेयाद्व्यतिरितमभावस्येति व्यापकानुपलब्धिः || १६७१ ॥
भन परो हेत्वसिद्धिमुद्भावयन्नाह – स्वरूपेत्यादि ।
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते किंचिद्रूपं कैचित्कदाचन ।। १६७२ ।।