________________
पलिकासमेतः। द्वितीयादस्य कः पक्षाद्विशेषोऽभिहितस्तदा।
यद्विकल्पेन निर्दिष्टं पक्षद्वयमिदं त्वया ॥ १६६४ ॥ व्यभिचारितेति । अतिव्यापिता । मूर्छादीत्यादिशब्देन व्यवधानपराबुखाचया गृह्यन्ते । तद्भावेऽपीति । घटादिज्ञानरूपेणापरिणतात्मद्रव्यसद्भावेऽपि । अर्थालम्बनप्रत्ययव्यतिरिक्तप्रत्ययान्तरसद्भावे सति घटादिविविक्तप्रदेशज्ञानमेवापरिणाम इष्यते । घटादिज्ञानरूपेणापरिणतत्वात् । तस्येति । आत्मनः । असाविति । अपरिणामः । एवं सति विज्ञानं वाऽन्यवस्तुनीत्येतस्माहितीयात्पक्षादस्य विशेषो नोक्तः स्यात् । ततश्च पक्षद्वयनिर्देशोऽनर्थकः स्यात् ॥ १६६२ ॥ १६६३ ॥ १६६४ ॥ अन्यवस्तुनीत्यादिना द्वितीयेऽभावलक्षणे व्यभिचारितामाह ।
अन्यवस्तुनि विज्ञाने वृत्ते सर्वस्य नास्तिता ।
अदृश्यस्यापि गम्येत द्वितीयाभावसंश्रये ॥ १६६५ ॥ अदृश्यस्यापीति । देशकालखभावविप्रकृष्टस्य । द्वितीयाभाव इति । विज्ञानं वाऽन्यवस्तुनीत्येतस्मिन् ॥ १६६५ ॥
तत्तुल्ययोग्यरूपस्य कारणान्तरसन्निधौ ।
तद्विविक्तान्यविज्ञाने नास्तिता चेत्प्रतीयते ॥ १६६६ ।। अथापि स्यान्न सर्वस्यादृष्टस्याभावः साध्य इष्टः । किं तर्हि ? । तत्तुल्ययोग्यरूपस्य-तेनोपलभ्येन घटादिविविक्तप्रदेशेन तुल्यं रूपं योग्यता यस्य स तथोक्तः । उपलब्धिलक्षणप्राप्तस्येति यावत् । तद्विविक्तान्यविज्ञान इति घटादिविविक्तप्रदेशझाने ॥ १६६६ ॥ शक्येत्यादिना प्रतिविधत्ते।
शक्यदर्शनवस्त्वाभप्रत्यक्षस्यैव नास्तिता। एवं सति समाख्येयो नान्येषां व्यभिचारिणी ॥१६६७॥ भन्यवस्तुनि विज्ञानं जातं वा ज्ञायते कथम् । अप्रत्यक्षा मता बुद्धिर्येनापत्तितो यदि ॥ १६६८॥ सापि ज्ञानात्मिकैवेति तस्या अपि कुतो गतिः। अर्थापत्त्यन्तरमोक्तावनवस्था प्रसज्यते ॥ १६६९ ॥ यदि वस्तु प्रमाभावो मेयाभावस्तथैव च । प्रत्यक्षेऽन्तर्गतो भावस्तथासति कथं न ते ॥१६७०॥