________________
तन्त्मसङ्गदः ।
प्रत्यक्षादीनां प्रमाणानामभावः प्रमाणं प्रत्यक्षादिभ्यो मिन्नम्, अभाबशब्दवाच्य. स्वात् प्रमेयाभाववत् । अथवा — अभावाख्यप्रमेयो धर्मी, तस्य स्वानुरूपप्रमाणप्रमेयत्वं साभ्यं, प्रमेयत्वादिति हेतु:, भावाख्यप्रमेयो दृष्टान्तः । यच्च स्वानुरूपं प्रमाणं तद्भावात्मकात्प्रत्यक्षादेरन्यदिति सिद्धम् ।। १६५८ ।। १६५९ ॥ तदत्रेत्यादिना प्रतिविधत्ते ।
तद नित्यसत्त्वस्य परिणामो निराकृतः । तद्विपर्ययसद्भावः कादाचित्को न युज्यते ॥ १६६० ॥ अनेनात्मनोऽपरिणामो वेति प्रथमस्याभावलक्षणस्यासम्भवितामाह । तथाहिपर्युदासवृत्त्या परिणामविपरीतोऽपरिणामः कादाचित्कोऽमिप्रेतो लक्षणत्वेन । अन्यथा हि यदि कादाचित्को नाभिप्रेतः पर्युदासवृत्त्या स्यात्, तदा सर्वदैव वस्तुनोऽस्तित्वप्रतीतिः स्यात् । स चापरिणामो यथोक्तो न सम्भवत्यात्मनः, यस्मान्नित्यस त्वस्य परिणामो निराकृतस्तस्मात्कुतस्तस्य विपरीतस्यापरिणामस्य पर्युदासवृत्त्या संश्रयणं भवेत् । तत्र—सत्त्व आत्मा, नित्यश्चासौ सत्त्वश्वेति नित्यसत्त्वः । यद्वानित्यं सन्त्वं—सत्ता यस्य स तथोक्तः । नित्य इति यावत् । तद्विपर्ययसद्भाव इति । तस्य परिणामस्य विपर्ययोऽपरिणामः स कादाचित्को न युक्तः । किं तर्हि सर्वदा भवेन्नित्यैकरूपत्वादात्मैकः || १६६० ।।
1
अथ मतम् - अपरिणामो न परिणामविपरीतवस्त्वात्मकः । किं तर्हि ? । परिणामप्रतिषेधमात्रात्मकः । तेन नासम्भवि लक्षणं भवतीति, अत्राह -तत्प्रतिक्षेपेत्यादि । तत्प्रतिक्षेपमात्रात्मा स चेदत्र विवक्षितः ।
सर्वदा वस्तुताऽस्ति गम्येतास्यानिवर्त्तनात् ॥ १६६१ ॥
तस्य परिणामस्य प्रतिक्षेपः प्रतिषेधः, स एव तन्मात्रं, तदेवात्मा स्वभावो यस्याsपरिणामस्य स तथोक्तः । अस्येति । प्रतिक्षेपात्मनोऽपरिणामस्य नित्यैकरूपत्वादात्मनः परिणामाभावात् ॥ १६६१ ॥
1
अस्तु वेत्यभ्युपगम्यापरिणाममतिव्यापितां लक्षणदोषमाह ।
अस्तु वाऽपरिणामोsस्य तथापि व्यभिचारिता । स्वापमूर्च्छाद्यवस्थासु तद्भावेऽप्यर्थसम्भवात् ॥ १६६२ ।। प्रत्ययान्तरसङ्गावे तद्विविक्तान्यदर्शनात् । . घटज्ञानादिरूपेण तस्यासाविष्यते यदि ।। १६६३ ।।