________________
पविकासमेतः ।
४७३.
न वस्तुनो भेदो युक्तो वस्त्वधिष्ठानत्वात्तस्य । तस्मादभावो वस्तु । कीदृशं पुनरस्य वस्तुत्वमित्याह — कार्यादीनामिति । क्षीरादेः कारणस्य यो भावः स एव दध्यादेः कार्यस्याभावः, कार्यस्य दुध्यादेर्यो भावः स एव क्षीरादेः कारणस्याभाव “त्येतदभाववस्तुत्वम् ॥ १६५५ ।।
पुनरप्यनुमानेन वस्तुत्वमस्य प्रतिपादयन्नाह – यद्वेत्यादि ।
यद्वाऽनुवृत्तिव्यावृत्तिबुद्ध्योर्ग्राह्यो यतः खयम् । तस्माद्गवादिवद्वस्तु प्रमेयत्वाच्च गम्यताम् ॥ १६५६ ॥ अभावो वस्त्विति पक्षः, अनुवृत्तिव्यावृत्तिबुद्धिप्राह्यत्वात्प्रमेयत्वाश्चेति हेतुद्वयं, गवादिवदिति दृष्टान्तः ॥ १६५६ ॥
तत्रानुवृत्तिबुद्धिञ्चतुर्ष्वप्यभावोऽभाव इत्येकाकारः प्रत्ययः । ल्यावृत्तिबुद्धिः प्रागभावोऽयं न प्रध्वंसाभाव इत्यादिभेदाकारः प्रत्ययः । तत्र कुमारिलेन त्रिविधोऽभावो वर्णितः । आत्मनोऽपरिणाम एकः, पदार्थान्तरविशेषज्ञानं द्वितीयः, "साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनी" ति वचनात् प्रमाणनिवृत्तिमात्रात्मकस्तृतीयः, त्रिलक्षणेन या बुद्धिर्जन्यते सानुमेष्यते । " नचानुत्पत्तिरूपस्य कारणाधीनता क चि”दिति वचनात् । तत्रैतस्मिंस्तृतीयेऽभावे चोद्यमाशय परिहरन्नाह —मानं कथमभावश्चेदिति ।
मानं कथमभावश्चेत्प्रमेयं चात्र कीदृशम् ।
मेयो यद्वद्भावो हि मानमप्येवमिष्यताम् ॥ १६५७ ॥ अथोच्यते कथं प्रत्यक्षानुत्पत्तिलक्षणोऽभावः प्रमाणमिति । अत्रोच्यते — प्रमेयं चात्र कीदृशमिति । अभावरूपं प्रमेयमिति चेत् । एवं तर्हि यथाभूतं प्रमेयं तथाभूतमेव प्रमाणमितीष्यताम् । तत्किमुच्यते — मानं कथमभाव इति । नहि लक्षणं प्रमाणं (न) युक्तम् ॥ १६५७ ॥
भवत्वभावस्य प्रामाण्यं प्रत्यक्षादिभ्यस्तु भेदोऽस्य कथमित्याह — अभावेत्यादि ।
अभावशब्दवाच्यत्वात्प्रत्यक्षादेश्च भिद्यते ।
प्रमाणानामभावो हि प्रमेयाणामभाववत् ॥ १६५८ ।। अभावो वा प्रमाणेन खानुरूपेण मीयते ।
प्रमेयत्वाद्यथा भावस्तस्माद्भावात्मकात्पृथक् ॥ १६५९ ॥
६०