________________
तत्त्वसङ्ग्रहः। शिरसोऽवयवा निन्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव इष्यते ॥ १६५३ ॥ न च स्याद्व्यवहारोऽयं कारणादिविभागशः।
प्रागभावादिभेदेन नाभावो विद्यते यदि ॥ १६५४ ॥ । क्षीरमृदादौ कारणे दधिघटादिलक्षणं कार्य नास्तीत्येवं यत्प्रतीयते लोके स प्रागभाव उच्यते । यदि तु प्रागभावो न भवेत् , क्षीरादौ दध्यादिकार्य भवेदेव । एवं दन्नि क्षीराख्यस्य यन्नास्तित्वमयं प्रध्वंसाभावः । अन्यथा दनि क्षीरं भवेदेव । गवादी वस्त्वादेरभावोऽन्योन्याभाव उच्यते । यस्मात्तस्य गवादेः पररूपमश्वादिखभावो नास्ति, तस्मात्तयोरन्योन्याभाव उच्यते । अन्यथा गवादी भवेदेवाश्वादि यद्यन्योन्याभावो न भवेत् । शशशिरसोऽवयवा निम्ना वृद्धिकाठिन्याभ्यां रहिवा विषाणादिरूपेणात्यन्तमसन्तोऽत्यन्ताभाव उच्यते । यद्यपि चात्र वस्तुवृत्तेरन्योन्याभावस्तथाऽपि लोकप्रसिद्ध्योक्तमत्यन्ताभाव इति । प्रायेण हि लोके सामानाधिकरण्येनैवे. तरेतराभावव्यवहारः, यथा-गौरयं नाश्व इति । नतु शशीयं न विषाणमित्येवम् । यदि त्वत्यन्ताभावो न भवेत् , शशे शृङ्गं भवेदेव । तथाचाह कुमारिल:-"क्षीरे दधि भवेदेव दनि क्षीरं घटे पटः । शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥ भप्सु गन्धो रसश्चानौ वायौ रूपेण तौ सह । व्योनि सस्पर्शकास्ते च न चेदस्य प्रमाणता ॥” इति । तत्र-चैतन्यम्-आत्मा । मूर्तिः–काठिन्यम् । रूपेण तो सहेति । तौ-गन्धरसौ, रूपसहितौ वायौ स्याताम् । सस्पर्शकास्त इति । ते-रूपरसगन्धाः सह स्पर्शेन व्योग्नि-आकाशे स्युः । किंच-नच स्यात्कारणादिविभागेन लोकव्यवहारो यद्यभावस्य प्रागभावादिभेदेन भेदो न स्यात् । यथा-यो द. ध्यर्थी स क्षीरोपादानं करोति, नतु क्षीरार्थी दध्युपादानम् , तथा गवार्थी नाश्वमुपादत्ते, नाप्यश्वार्थी गाम् । इत्येवमादिकारणादिविभागेन व्यवहारः ॥ १६५१ ॥ ॥ १६५२ ॥ १६५३ ॥ १६५४ ॥
अथापि स्याचदि नाम चतुर्वा भेदोऽस्य जातस्तथापि वस्तुत्वेन भवितव्यमेतत्कुत इत्याहन चावस्तुन इत्यादि ।
न चावस्तुन एते स्यु दास्तेनाल वस्तुता। कार्यादीनामभावः स यो भावः कारणादिना ॥ १६५५ ॥