________________
४०१
पलिकासमेतः। प्रमेये, अमावस्य प्रमाणता । अनेन विषयोऽस्य केवलो निर्दिष्टो नतु स्वरूपम् ॥ १६४८ ॥ खरूपमस्य तर्हि कीदृशमित्याह-प्रत्यक्षादेरियादि ।
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते ।
साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥१६४९॥ प्रत्यक्षादेरपत्तिपर्यन्तस्यानुत्पत्तिः प्रमाणाभाव इष्यते । प्रमाणाभाव इति षष्ठीतत्पुरुषः कर्मधारयो वा । कचित्पाठः प्रमाणेऽभाव इति । तत्र निर्धारणे सप्तमी, आतावेकवचनम् । प्रमाणानां मध्येऽभावः प्रमाणमित्यर्थः । यथोक्तं शबरखामिनाअभावोऽपि प्रमाणाभावो नास्तीत्यर्थस्थासनिकृष्टस्येति । अथ केयमनुत्पत्तिरित्याहसाऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनीति । सा-प्रत्यक्षादेनुत्पत्तिः, निषेध्यामिमतघटादिपदार्थज्ञानरूपेणापरिणतं साम्यावस्थमात्मद्रव्यमुच्यते । घटादिविविक्तभूतलज्ञानं वा ॥ १६४९ ॥
ननु चाभाव इति वस्तुविरह उच्यते । तत्कथं वस्तुत्वमस्य, नहि वस्तु विरहो भवतीत्याशय वस्तुत्वमभावस्य प्रतिपादयन्नाह-प्रमाभावादिति ।
प्रमाभावाच वस्तूनामभावः संप्रतीयते । __ चतुर्धा च विभिन्नोऽसौ प्रागभावादिभेदतः ॥ १६५० ॥ यदि प्रमाणाभावो वस्तु न भवेत्ततश्च सर्वसामर्थ्यशून्यत्वादस्पेति ततो नाभावप्रतीतिः स्यात्, प्रागभावादिभेदेन चतुर्धा च भेदोऽभावस्य न स्यात् , नचैवम् , तस्मादभावप्रतीत्यन्यथानुपपत्त्या चतुर्धा भेदेन लोकस्य व्यवहारान्यथानुपपत्त्या चाभावस्य वस्तुत्वम् । एतच्चार्थापत्त्याख्यं प्रमाणद्वयमित्येके । अन्ये तु चतुर्धा च विमिन्नोऽसावित्येतदनुमानमिति वर्णयन्ति । एवं च प्रमाणयन्ति-अभावो वस्तु, मिद्यमानत्वात् , घटादिवदिति ॥ १६५० ॥ कथं पुनरस्य चतुर्धा भेद इति प्रतिपादयन्नाह-क्षीरे दधीत्यादि ।
क्षीरे दध्यादि यन्नास्ति प्रागभावः स कल्प्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् ॥ १६५१ ।। गवि योऽश्वाचभावश्च सोऽन्योन्याभाव उच्यते । पररूपं न तस्यास्ति नास्तिताग्यात्मना ततः ॥ १६५२ ॥