________________
ભ
तन्त्वसङ्ग्रहः ।
पात् सानिगृहे, चैत्राभावनिश्वये सति, सिद्धो जीवनविशिष्टचैत्राभाव इति, भवेदेवास्या अभावोत्थाया अर्थापत्तेः प्रमाणता ॥ १६४४ ॥
तदाऽपीत्यादिना प्रतिविधत्ते ।
तदाऽपि गेहायुक्तत्वं दृष्ट्याऽदृष्टेर्विनिश्चितम् । अतस्तत्र बहिर्भावो लिङ्गादेवावसीयते ।। १६४५ ॥ सद्मना यो संसृष्टो नियतं बहिरस्त्यसौ । गेहाङ्गणस्थितो दृष्टः पुमान् द्वारि स्थितैरिव ।। १६४६ ।। विपक्षोऽपि भवत्यत्र सदनान्तर्गतो नरः । अर्थापत्तिरियं तस्मादनुमानान्न भिद्यते ॥। १६४७ ॥ इत्यर्थापत्तिपरीक्षा |
1
"
अनेनानुमानान्तर्भावमाह । तथाहि — चैत्रोऽत्र धर्मी, तस्य बहिर्भावः साध्यः, जीवने सति गृहासङ्गो हेतुः कार्यः । गृहाङ्गणस्थितः पुमान् साधर्म्यदृष्टान्तः । गृहान्तर्गतस्तु वैधर्म्यदृष्टान्तः । सदनं गृहम् । व्याप्तिर्दृष्टान्ताभ्यामेव निश्चिता । नचासिद्धो हेतुः । यतो गेहायुक्तत्वं तावद्दृश्यानुपलब्ध्या निश्चितम् जीवनं तु पराभ्युपगमात्सिद्धम् । परमार्थतस्तु संदिग्धो हेतुः । नहि जीवत्तानिश्चायकं किंचित्प्रमाणमस्ति । ननु च शब्दादिरस्तीत्युक्तम् । एवं तर्हि यत एव शब्दादेः प्रमाणाज्जीवनं निश्चितं तत एव बहिर्भावः सिद्ध इति किमर्थापत्त्या कर्त्तव्यम् । तस्मात् - पराभ्युपगमात् । सिद्धं हेतुमभ्युपगम्यानुमानेऽन्तर्भावः प्रतिपादित अर्थापत्तेः ।। १६४५ ।। १६४६ ॥। १६४७ ॥
इत्यर्थापत्तिपरीक्षा ।
अभावमधिकृत्याह — प्रमाणेत्यादि ।
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥ १६४८ ॥
तत्र मीमांसकानां सदसल्लक्षणयोर्भावाभावयोर्वस्तुत्वं, सर्वस्य च पदार्थस्य सदसद्रूपेण द्वयात्मकत्वमित्यभ्युपगमः । तत्र सदसद्रूपेणोभयात्मके वस्तुनि व्यवस्थिते, यस्मिन्वस्तुरूपे ——— वस्त्वंशेऽसद्रूपाख्ये, प्रमाणपञ्चकमर्थापत्तिपर्यन्तं न जायते । किमर्थम् ? | वस्तुसत्ताऽवबोधार्थम् — वस्तुनः सत्तांशावबोधार्थम् । तत्र — अभावांशे