________________
पञ्जिकासमेतः ।
अत्र द्वयी कल्पना, यास्ताः क्रिया अभिव्यङ्ग्या इष्टस्ताः प्रकृत्या ज्ञानोत्पादनसमर्था वा स्युर्नवा । तत्र सामर्थ्ये सति, सन्ततं — नित्यं, तद्भावि ज्ञानं प्राप्नोति । तासां समर्थस्य स्वभावस्य नित्यत्वेन केनचिदप्रतिबद्धत्वात् । अनाधेयातिशयस्य विशेधमनाधाय प्रतिबद्ध मशक्यत्वात् । अथासामर्थ्य, तदा तद्वियोगे — सामर्थ्यवियोगे, नैव तद्भावि ज्ञानं स्यादिति किं व्यञ्जकस्य सामर्थ्यम् । तस्मात्तासां क्रियाणां नित्यत्वेनेष्टानां न कथंचित्सङ्गच्छन्ते व्यञ्जकत्वेन कल्पिता हेतवः । अनित्यानां त्वपूर्वस्वभावोत्पत्तिर्व्यञ्जकादिति न्याय्यास्तान् प्रति व्यञ्जकाः । यश्चोक्तम् — “ तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञये" त्यत्राह - प्रत्यभिज्ञेति । नित्यत्वे साध्ये हेतुत्वेन प्रत्यमिज्ञोपन्यस्ता सा पूर्व स्थिरभावपरीक्षायां निराकृता ।। १६३९ ।। १६४० ॥ यदुक्तम् — “प्रमाणाभावनिर्णीत चैत्राभावविशेषितात्" इत्यत्राह — गेहेत्यादि । गेहाभावात्तु चैत्रस्य बहिर्भावो न युज्यते । मरणाशङ्कया यस्मादन्यथाऽप्युपपद्यते ।। १६४१ ॥ जीवतखेहाभावो बहिर्भावप्रसिद्धये ।
अर्थापत्त्यावहो ह्येतन्नैव तत्राप्यनिश्चयात् ॥ १६४२ ॥ वेश्मन्यपश्यतश्चैत्रं न ह्यवग्दर्शिनः प्रमा । तस्य जीवनसम्बन्धे कथंचिदपि वर्त्तते ॥ १६४३ ॥
86
अन्यथाऽपीति । बहिर्भावमन्तरेणोपपद्यते गेहे चैत्राभावः । अनेनानैकान्तिकत्वमाह । अथ जीवतो देवदत्तस्य यो गृहाभावः स इहार्थापत्त्युदाहरणे हेतुत्वेनोच्यते नाभावमात्रम् । नैवं युक्तम् । कस्मात् ? । तत्रापि देवदत्तजीवने संशयात्संदिग्धासि - द्धता हेतोः स्यात् । अनिश्चये कारणमाह – वेश्मनीति । तस्य चैत्रस्य जीवने निश्चायकप्रमाणाभावादवग्दर्शिनः संशय एव ।। १६४१ ।। १६४२ ।। १६४३ ॥
अथापि स्यात् — यदि नामार्वाग्दर्शिनः प्रत्यक्षप्रमाणं चैत्रस्य जीवनविषये नास्ति, अनुमानादि तु विद्यत एवेत्याह- अथेत्यादि ।
अथ शब्दादिना तस्य जीवत्तानिश्वये सति । सद्मन्यभावेऽभावाच निश्चितेऽस्याः प्रमाणता ॥ १६४४ ॥ शब्दादिनेति । तदुच्चारितशब्दः श्रूयते, प्रत्ययितो वा तस्मिन्काले कुड्याद्यन्तरितस्तपस्यन्कथयति जीवति चैत्र इति । अभावाच्च -! - प्रमाणात्प्रत्यक्षादिनिवृत्तिरू