________________
तस्वसहः ।
ब्दानामनन्यस्ववियोगेऽपि न विरुध्यत एवेत्यनैकान्तिकमेवैतदुदाहरणम् । तत्रान्यत्वमनित्यत्वं, नान्यत्वमनन्यत्वं-नित्यत्वमिति यावत् ॥ १६३५ ॥
ननु चोक्तम्-अनियो हि न सङ्केतव्यवहारानुवृत्तिभागिति, अत्राह-तुल्येत्यादि।
तुल्यप्रत्यवमर्शस्य हेतुत्वात्कम्पनं यथा ।
प्रत्यायकत्वं शब्दानां तथैव न विरुध्यते ॥ १६३६ ॥ यद्यपि खलक्षणानां क्षणिकत्वादन्वयो नास्ति, तथाऽपि कानिचित्खलक्षणानि प्रकृत्या पारम्पर्येणाभेदाकारस्य भ्रान्तस्य प्रत्यवमर्शज्ञानस्य कारणानि भवन्ति सन्येकत्वेन गृह्यमाणानि प्रत्यायकानि भवन्ति सङ्केतवशात् । यथाकम्पनम् । प्रत्यायकमिति शेषः ॥ १६३६ ॥ यथा कम्पनमित्यस्य दृष्टान्तस्य परः साध्यविकलतामुद्भावयन्नाह-प्रत्यक्षेत्यादि ।
प्रत्यक्षद्रव्यवर्तिन्यो दृश्यन्ते ननु याः क्रियाः।
तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञया ॥ १६३७ ।। .. यथा वर्णानां प्रत्यमिज्ञया नित्यत्वमिष्टमस्मामिः । तथा पाण्यादिकर्मणामपीत्यनित्यत्वेन साध्येन विकलो दृष्टान्त इत्यव्यभिचार एव ॥ १६३७ ॥
यद्येवं नित्यत्वे सति पाण्यादिकर्मणां किमिति नित्यमुपलब्धिर्न जायत इत्यत्राह -व्यञ्जकेत्यादि ।
व्यञ्जकाभावतश्वासां सन्ततानुपलम्भता।
यदेवोत्पादकं वः स्यात्तदेव व्यञ्जकं मतम् ॥ १६३८॥ आसामिति । क्रियाणाम् । सन्ततानुपलम्भता । यथा भवतामुत्पादकामावानित्योपलब्धिनं भवति, तथाऽस्माकं व्यञ्जकाभावादिति समानः परिहार इति परस्वामिप्रायः ॥ १६३८ ॥ नैवमित्यादिना प्रतिविधत्ते । • नैवमप्रतिबद्धे हि सामर्थ्य सन्ततं भवेत् ।
तज्ज्ञानं तद्वियोगे तु नैव स्यात्तत्कदाचन ॥ १६३९ ॥ ततश्च व्यञ्जकास्तासां सङ्गच्छन्ते न हेतवः । प्रत्यभिज्ञा तु नित्यत्वे पूर्वमेव निराकृता ॥ १६४० ॥