________________
पश्चिकासमेतः ।
४६७
अथवा पीनो देवदत्तो दिवा न भुङ्क्त इत्येतदन्वयवाक्यं कार्यलिङ्गमात्मीयं का रणं विविक्षां विशिष्टामनुमापयन्हेतुधर्मानुमानेन धूमे वन ( धूमेनेन्धन १) विकारवत्सामर्थ्याद्रात्रौ भुङ्क इत्येतद्व्यतिरेकवाक्यमपि गमयति, नतु साक्षादिति प्रतिपाद• यन्नाह — द्वितीयेत्यादि ।
द्वितीयवाक्यनिर्भासा विवक्षा वाऽनुमीयते । एतेनान्वयवाक्याच्च व्यतिरेकगतिर्मता ॥। १६३१ ॥
एतेनेति । हेतुधर्मानुमानेन नतु साक्षात् । यस्मादन्वयवाक्यात्तादृशी विवक्षा ग म्यते, यस्यां व्यतिरेकवाक्यमपि निर्भासते । अन्यथा यदि रात्रिभोजनं विवक्षायां नारूढं स्यात्, भोजनप्रतिषेधमात्रं केवलं प्रतिपादयितुमिष्टं तदा देवदत्तो न भुङ्क्त इत्येवोक्तं स्यात् । नतु दिवा, पीन इति । व्यतिरेकगतिरिति । व्यतिरेकवाक्य - गतिः ॥ १६३१ ॥
गवयोपमिता या गौरित्यत्राह —— उपमाया इति ।
उपमायाः प्रमाणत्वे विस्तरेण निराकृते । अर्थापत्तेस्तदुत्थाया वारितैव प्रमाणता ॥ १६३२ ॥
भवतु चोपमायाः प्रामाण्यम्, तथाप्युपमानपूर्विकाया अर्थापत्तेर्गृहीतग्रहणान्न युक्तं पृथक्प्रामाण्यं व्यतिरिक्तस्य शक्तिलक्षणस्य प्रमेयस्याभावादिति प्रतिपादयनाह - उपमानेत्यादि ।
"
उपमानप्रमाणस्य गौस्त्वालम्बनमिष्यते ।
स्वसत्तयैव चालम्व्यं खज्ञानजनकं मतम् ॥ १६३३ ॥ तत्किमत्रान्यया शक्त्या यद्वत्यर्थमपेक्ष्यते ।
अर्थापत्तेः प्रमाणत्वमुपमानसमाश्रयम् ॥ ९६३४ ॥ यद्गत्यर्थमिति । शक्तिप्रतीत्यर्थम् । शेषं सुबोधम् ।। १६३३ ॥। १६३४ ॥ अभिधानान्यथेत्यादावर्थापत्तिपूर्विकाया अर्थापत्तेरुदाहरणस्यानैकान्तिकत्व माह
- अनन्यत्वेत्यादि ।
अनन्यत्ववियोगेऽपि शब्दानां न विरुध्यते । अर्थप्रत्यायनं यद्वत्पाणिकम्पादिकारणम् || १६३५ ॥ यथाय नित्यानामपि पाणिकम्पा क्षिनिकोचादीनामर्थप्रत्यायनं न विरुद्धं तथा श