________________
तत्त्वसङ्ग्रहः।
म्बन्धः, समप्यनवधारितः सम्बन्धोऽसत्प्रख्य एव । ततश्चानवधारिते सम्बन्धे प्र. तीयमानमप्रमाणकं स्यात्-निर्निबन्धनप्रतीतिकं (स्यात् ) निर्निबन्धना चेत्प्रतीतिः सर्व सर्वस्मात्प्रतीयेतेत्यतिप्रसङ्गोऽनिवार्य एव ॥ १६२६ ॥ सम्बद्धस्येत्यादिना परवचनावकाशमाशङ्कते ।
सम्बद्धस्य प्रमाणत्वं स्थितं नो चेन्नृपाज्ञया।
प्रत्यक्षस्य प्रमाणत्वं कथं वा सङ्गतिं विना ॥ १६२७ ॥ वत्र परो ब्रूते सम्बद्धस्य प्रामाण्यमिति यदि, परं नृपा.वेयम् , नत्वत्र काचियुक्तिः । तथाहि-सम्बद्धस्य प्रमाणत्वमिति यदि नृपाज्ञा न भवेत् , कथं तर्हि प्रत्यक्षस्य प्रामाण्यं सङ्गतिं विना-सम्बन्धमन्तरेणेति वक्तव्यम् ॥ १६२७ ॥ अत्रोत्तरमाह-नन्विति ।
नन्वसम्बद्धगम्यत्वे किमन्यस्यापि नो गतिः ।
नहि सम्बन्धशून्यत्वे विशेषः कश्चनेक्ष्यते ॥ १६२८ ॥ · सम्बन्धादेव मानवमध्यक्षेऽपि व्यवस्थितम् ।
संवादो हि प्रमाणत्वं स चार्थादात्मलाभतः ॥ १६२९ ॥ नन्वसम्बद्धं यदि गम्येत तदाऽतिप्रसङ्गः स्यादविशेषादित्यत्र भवता न किञ्चि. दुत्तरं दत्तम् । यञ्चोक्तं कथं प्रत्यक्षस्य विना सम्बन्धेन प्रामाण्यमिति, तदप्यसङ्गतमेव । तथाहि-सम्बन्धं विना न केनचित्प्रत्यक्षप्रामाण्यमभ्युपगतम् । किं तर्हि ? । सम्बन्धादेव मानत्वमध्यक्षेपि-प्रत्यक्षेपि व्यवस्थितम् । अत्रोपपत्तिमाह-संवादो हीत्यादि । अर्थप्रापणशक्तिः संवादः प्रामाण्यम् । स च संवादो नियमेन प्रत्यक्षस्य कथं युक्तो यदि ततोऽर्थात्तस्यात्मलाभो न भवेत् ॥ १६२८ ॥ १६२९ ॥ .. अन्यथा को दोष इत्याह-अतद्धे तोरिति ।
अतद्धेतोरहेतोश्च तत्संवादो न युज्यते ।
नियमेन समस्तानां संवादो वाऽन्यथा भवेत् ॥ १६३० ॥ सोऽर्थो हेतुर्यस्य स तथा, न तद्वेतुरतद्धेतुः । अन्यहेतुक इति यावत् । तस्मादतद्धेतोः प्रत्यक्षादहेतो; सर्वहेतुवैकल्येन तत्संवादः-अर्थसंवादः, न नियमेन स्यात् । किं तर्हि ? । समस्तानां सर्वेषामर्थानां, संवादः स्यादित्यत्रापि समानः प्रसाः ॥ १६३०॥