________________
पलिकासमेतः।
४६५ परस्य वक्तुरातत्वेनाभ्युपगतत्वात् । यद्वा-प्रमाणान्तरतः प्रत्यक्षादेर्शानं पीनो देवदत्तो दिवा न भुत इति । अत्र प्रतिविधत्ते-भवत्वित्यादि । भवत्वर्थस्य रात्रिभोजनस्य गतिस्तत:-दिवाभोजनवैकल्येन विशेषितात्पीनत्वात् । नतु वाक्यान्तरस्य बुद्धिस्थस्य गमकत्वम् , एवं सत्यनुमान एवान्तर्भावान प्रमाणान्तरत्वं स्यादित्यमिप्रायः ॥ १६२२ ॥ तमेवान्तर्भावं दर्शयन्नाह-क्षपेत्यादि ।
क्षपाभोजनसम्बन्धी पुमानिष्ट प्रतीयते ।
दिवाभोजनवैकल्यपीनत्वेन तदन्यवत् ॥१६२३ ॥ इष्टः-विवक्षितः पुरुषविशेषो रात्रिभोजनविशिष्टः । भोजनवैकल्ये सति पीनत्वादिति हेतुः । तदन्यपुरुषवदिति दृष्टान्तः । कार्यहेतुश्चायम् ॥ १६२३ ॥ कथमत्र कार्यकारणभावः सिद्ध इत्याह-भोजने इत्यादि ।
भोजने सति पीनत्वमन्वयव्यतिरेकतः।
निश्चितं तेन सम्बद्धाद्वस्तुनो वस्तुतो गतिः ॥ १६२४ ॥ अग्निधूमयोरिवान्वयव्यतिरेकाभ्यां पीनत्वभोजनयोः कार्यकारणभावो निश्चितो यतस्तस्माद्वस्तुनः पीनत्वात्कार्यत्वेन सम्बन्धाद्वस्तुतो भोजनस्य गतिर्युक्ता । नतु वाक्यादप्रतिबद्धाद्वाक्यान्तरस्य प्रतीतिर्युक्ताऽतिप्रसङ्गात् ।। १६२४ ॥ समेवातिप्रसङ्ग दर्शयितुमाह-सर्वसम्बन्धेत्यादि ।
सर्वसम्बन्धशून्यं हि कथं वाक्यं प्रतीयते ।
एकस्माद्वाक्यतः सर्व प्रतीयेतान्यथा पुनः ॥ १६२५ ॥ सर्वेण सम्बन्धेन तादात्म्यतदुत्पत्तिलक्षणेन शून्यं रहितं वाक्यं कथं प्रतीयेत । नैव । अन्यथा यदि सर्वसम्बन्धशून्यमपि प्रतीयेत तदा यतःकुतश्चिदेकस्माद्वस्तुनो घटादेः सर्व घटादि प्रतीयेत । नचैवम् । तस्मात्प्रतिबन्धात्प्रतिपत्तिरभ्युपगन्तव्या ॥ १६२५ ॥ तथाहीत्यतिप्रसङ्गमेव समर्थयते।
तथायसति सम्बन्धे सति चानवधारिते।
गम्यमानमिदं वाक्यं प्रसज्येताप्रमाणकम् ॥ १६२६ ॥ सति सम्बन्ध इस्मभ्युपगमः । एकदा तावमास्त्येव वाक्यस वाक्यान्तरेण स